भविष्यपुराण ब्राह्म पर्व अध्याय १
भविष्यपुराण ब्राह्म पर्व अध्याय १- व्यास-शिष्य महर्षि सुमन्तु एवं राजा शतानीक का संवाद, भविष्यपुराण की महिमा एवं परम्परा । यहाँ भविष्यपुराण की मूलपाठ तत्पश्चात् कथा श्लोक हिन्दी भावार्थ सहित पाठकों के लाभार्थ दिया जा रहा है ।
भविष्यपुराणम् पर्व १ (ब्राह्मपर्व)अध्यायः १
भविष्यपुराण ब्राह्म पर्व अध्याय १
भविष्यपुराणम् /पर्व १
(ब्राह्मपर्व)/अध्यायः १
॥ श्रीगणेशाय नम ॥
॥ॐ नमो भगवते वासुदेवाय॥
नारायणं नमस्कृत्य नरं चैव
नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्
। । १
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो
व्यासः ।
यस्यास्यकमलगलितं वाङ्मयममृतं
जगत्पिबति । । २
मूकङ्करोति वाचालं पङ्गु लङ्घयते
गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम्
। । ३
पाराशर्यवचः सरोजममलं
गीतार्थगन्धोत्कटं,
नानाख्यानककेसरं
हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं
मुदा,
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः
श्रेयसे । । ४
यो गोशतं कनकशृङ्गमयं ददाति,
विप्राय वेदविदुषे च बहुश्रुताय ।
पुण्यां भविष्यसुकथां
शृणुयात्समग्रां,
पुण्यं समं भवति तस्य च तस्य चैव ।
। ५
कृत्वा पुराणानि पराशरात्मजः
सर्वाण्यनेकानि सुखावहानि ।
तत्रात्मसौख्याय भविष्यधर्मान् कलौ
युगे भावि लिलेख सर्वम् । । ६
तत्रापि सर्वर्षिवरप्रमुख्यैः
पराशराद्यैर्मुनिभिः प्रणीतान् ।
स्मृत्युक्तधर्मागमसंहितार्थान्
व्यासः समासादवदद्भविष्यम् । । ७
अल्पायुषो लोकजनान्समीक्ष्य
विद्याविहीनान्पशुवत्सुचेष्टान् ।
तेषां सुखार्थं प्रतिबोधनाय व्यासः
पुराणं प्रथितं चकार । । ८
जयति भुवनदीपो भास्करो लोककर्त्ता,
जयति च शितिदेहः शार्ङ्गःधन्वा
मुरारिः । ।
जयति च शशिमौली रुद्रनामाभिधेयो,
जयति च स तु देवो भानुमांश्चित्रभानुः
। । १
श्रियावृतं तु राजानं शतानीकं
महाबलम् ।
अभिजग्मुर्महात्मानः सर्वे द्रष्टुं
महर्षयः । । २
भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः
पुलहः क्रतुः ।
पराशरस्तथा व्यासः
सुमन्तुर्जैमिनिस्तथा । । ३
मुनिः पैलो याज्ञवल्क्यो गौतमस्तु
महातपाः ।
भारद्वाजो मुनिर्धीमांस्तथा
नारदपर्वतौ । । ४
वैशम्पायनो महात्मा शौनकश्च महातपाः
।
दक्षोऽङ्गिरास्तथा गर्गो गालवश्च
महातपाः । । ५
तानागतानृषीन्दृष्ट्वा शतानीको
महीपतिः ।
विधिवत्पूजयामास अभिगम्य महामतिः ।
। ६
पुरोहितं पुरस्कृत्य अर्ध्यं गां
स्वागतेन च ।
पूजयित्वा ततः सर्वान्प्रणम्य शिरसा
भृशम् । । ७
सुखासीनांस्ततो राजा निरातङ्कान्
गतक्लमान् ।
उवाच प्रणतो भूत्वा बाहुमुद्धृत्य
दक्षिणम् । । ८
इदानीं सफलं जन्म मन्येऽहं भुवि
सत्तमाः ।
आत्मनो द्विजशार्दूला! तथा
कीर्तिर्यशो बलम् । । ९
धन्योऽहं पुण्यकर्मा च यतो मां
द्रष्टुमागताः ।
येषां स्मरणमात्रेण युष्माकं पूयते
नरः । । 1.1.१०
श्रोतुमिच्छाम्यहं
किञ्चिद्धर्मशास्त्रमनुत्तमम् ।
आनृशंस्यं समाश्रित्य कथयध्वम्
महाबलाः! । । ११
येनाहं धर्मशास्त्रं तु श्रुत्वा
गच्छे परां गतिम् ।
यथागतो मम पिता श्रुत्वा वै भारतं
पुरा । । १२
तथोक्तास्तेन राज्ञा वै
ब्राह्मणास्ते समन्ततः ।
समागम्य मिथस्ते तु विमृश्य च १
भृशम् तदा । । १३
पूजयित्वा ततो व्यासमिदं
वचनमब्रुवन् ।
व्यासं प्रसादय विभो! एष ते
कथयिष्यति । । १४
तिष्ठत्यस्मिन्महाबाहो! वयं वक्तुं
न शक्नुमः ।
तिष्ठमाने गुरौ शिष्यः कथं वक्ति
महामते! । । १५
२अयं गुरुः सदास्माकं
साक्षान्नारायणस्तथा ।
कृपालुश्च तथा चायं तथा
दिव्यविधानवित् । । १६
चतुर्णामपि वर्णानां पावनाय
महात्मनाम् ।
धर्मशास्त्रमनेनोक्तं धर्माद्यैः
सुसमन्वितम् । । १७
बिभेति गहनाच्छास्त्राल्लोको
व्याधिरिवौषधात् ।
भारतस्य च विस्तारो मुनिना व्याहृतः
स्वयम् । । १८
यथा स्वादु च पथ्यं च दद्यास्त्वं
भिषगौषधम् ।
तथा रम्यं च शास्त्रं च भारतं
कृतवान्मुनिः । । १९
आस्तिक्यारोहसोपानमेतद्भारतमुच्यते
।
तच्छ्रुत्वा स्वर्गनरकौ लोकः
साक्षादवेक्षते । । 1.1.२०
देवतातीर्थतपसां भारतादेव निश्चयः ।
न जन्यते नास्तिकता तस्य
मीमांसकैरपि । । २१
विष्णौ १ देवेषु वेदेषु गुरुषु
ब्राह्मणेषु च ।
भक्तिर्भवति कल्याणी भारतादेव
धीमताम् । । २२
धर्मार्थकाममोक्षाणां
भरतात्सिद्धिरेव हि ।
अजिह्मो भारतः पन्था
निर्वाणपदगामिनाम् । । २३
मोक्षधर्मार्थकामानां प्रपञ्चो
भारते कृतः ।
अनित्यतापसन्तप्ता भवन्ति तस्य
मुक्तये । । २४
विपत्तिं भारताच्छ्रुत्वा
वृष्णिपाण्डवसम्पदाम् ।
दुःखावसानाद्राजेन्द्र! पुण्यं च
संश्रयेद्बुधः । । २५
एवंविधं भारतं वै प्रोक्तं येन
महात्मना ।
सोऽयं नारायणः साक्षात् व्यासरूपी
महामुनिः । । २६
स तेषां वचनं श्रुत्वा प्रतापी यो
महीपतिः ।
प्रसादयामास मुनिं व्यासं
शास्त्रविशारदम् । । २७
शतानीक उवाच
अञ्जलिः शिरसा ब्रह्मन्! कृतोऽयं
पादयोस्तव ।
ब्रूहि मे धर्मशास्त्रं ५ तु येना
पूततां व्रजे । । २८
समुद्धर भवादस्मात्कीर्तयित्वा कथां
शुभाम् ।
यथा मम पिता पूर्वं कीर्तयित्वा तु
भारतम् । । २९
व्यास उवाच
तस्यैतद्वचनं श्रुत्वा व्यासो
वचनमब्रवीत् ।
एष शिष्यः सुमन्तुर्मे कथयिष्यति ते
प्रभो! । । 1.1.३०
यदिच्छसि महाबाहो! प्रीतिदं
चाद्भुतं शुभम् ।
श्रव्यं भरतशार्दूल! सर्वपापभयापहम्
। । ३१
यथा वैशम्पायनेन पुरा प्रोक्तं
पितुस्तव ।
महाभारतव्याख्यानं
ब्रह्महत्याव्यपोहनम् । । ३२
अथ तमृषयः सर्वे राजानमिदमब्रुवन् ।
साधु प्रोक्तं महाबाहो!
व्यासेनामितबुद्धिना । । ३३
सुमन्तुं पृच्छ राजर्षे!
सर्वशास्त्रविशारदम् ।
अस्माकमपि राजेन्द्र! श्रवणे जायते
मतिः ।
अथ व्यासो महातेजाः
सुमन्तुमृषिमब्रवीत् । । ३४
कथयास्मै कथास्तात! याः श्रुत्वा
मोदते नृपः ।
भारतादिकथानां तु यत्रास्य रमते मनः
। । ३५
असावपि महातेजाः श्रुत्वा भावं
महामतेः ।
व्यासस्य द्विजशार्दूल! ऋषीणां चापि
सर्वशः । । ३६
चकार वक्तुं स मनस्तस्मै राज्ञे महामतिः
।
व्यासस्य शासनाद्विप्र! ऋषीणां चैव
सर्वशः । । ३७
अथ राजा महातेजा आजमीढो
द्विजोत्तमम् ।
प्रणम्य शिरसात्यर्थं
प्रवक्तुमुपचक्रमे । । ३८
शतानीक उवाच
पुण्याख्यानं मम ब्रह्मन्! पावनाय
प्रकीर्तय ।
श्रुत्वा यद्ब्राह्मणश्रेष्ठ!
मुच्येऽहं सर्वपातकात् । । ३९
सुमन्तुरुवाच
नानाविधानि शास्त्राणि सन्ति
पुष्पानि भारत ।
यानि श्रुत्वा नरो राजन्! मुच्यते
सर्वकिल्बिषैः । । 1.1.४०
किमिच्छसि महाबाहो! श्रोतुं
यत्त्वां ब्रवीमि वै ।
भारतादिकथानां तु यासु धर्मादयः
स्थिताः । । ४१
शतानीक उवाच
मतानि कानि विप्रेन्द्र १!
धर्मशास्त्राणि सुव्रत! ।
यानि श्रुत्वा नरो विप्र! मुच्यते
सर्वकिल्बिषैः । । ४२
सुमन्तुरुवाच
श्रूयन्तां धर्मशास्त्राणि
मनुर्विष्णुर्यमोऽङ्गिराः ।
वसिष्ठदक्षसंवर्तशातातपपराशराः । ।
४३
आपस्तम्बोऽथ उशना कात्यायनबृहस्पती
।
गौतमःशङ्खलिखितौ हारीतोऽत्रिरथापि
वा । । ४४
एतानि धर्मशास्त्राणि श्रुत्वा
ज्ञात्वा च भारत! ।
वृन्दारकपुरं गत्वा मोदते नात्र
संशयः । । ४५
शतानीक उवाच
यान्येतानि त्वयोक्तानि
धर्मशास्त्राणि सुव्रत! ।
नेच्छामि श्रोतुं विप्रेन्द्र! ३
श्रुतान्येतानि हि द्विज! । । ४६
त्रयाणामपि वर्णानां प्रोक्तानामपि
पण्डितैः ।
श्रेयसे न तु शूद्राणां तत्र मे
वचनं शृणु । । ४७
चतुर्णामिह वर्णानां श्रेयसे यानि
सुव्रत! ।
भवन्ति द्विजशार्दूल! श्रुतानि
भुवनत्रये । । ४८
विशेषतश्चतुर्थस्य वर्णस्य
द्विजसत्तम! । । ४९
ब्राह्मणादिषु वर्णेषु त्रिषु वेदाः
प्रकल्पिताः ।
मन्वादीनि च शास्त्राणि तथाङ्गानि
समन्ततः । । 1.1.५०
शूद्राश्चैव भृशं दीनाः प्रतिभान्ति
द्विजप्रभो ।
धर्मार्थकाममोक्षस्य शस्ताः
स्युरवने कथम् । । ५१
आगमेन विहीना हि अहो कष्टं मतं मम्
।
कश्चैषामागमः प्रोक्तः पुरा
द्विजमनीषिभिः । ।
त्रिवर्गप्राप्तये ब्रह्मञ्छ्रेयसे
च तथोभयोः । । ५२
सुमन्तुरुवाच
साधु साधु महाबाहो! शृणु मे परमं
वचः ।
चतुर्णामपि वर्णानां यानि
प्रोक्तानि श्रेयसे । । ५३
धर्मशास्त्राणि १ राजेन्द्र! शृणु
तानि नृपोत्तम ।
विशेषतश्च शूद्राणां पावनानि
मनीषिभिः । । ५४
अष्टादशपुराणानि चरितं राघवस्य च ।
रामस्य कुरुशार्दूल!
धर्मकामार्थसिद्धये । । ५५
तथोक्तं भारतं वीर! पाराशर्येण
धीमता ।
वेदार्थसकलं योज्य३ धर्मशास्त्राणि
च प्रभो! । । ५६
कृपालुना कृतं शास्त्रं चतुर्णामिह
श्रेयसे ।
वर्णानां भवमग्नानां कृतं पोतो
ह्यनुत्तमम् । । ५७
अष्टादशपुराणानि अष्टौ व्याकरणानि च
।
ज्ञात्वा सत्यवतीसूनुश्चक्रे
भारतसंहिताम् । । ५८
यां श्रुत्वा पुरुषो राजन्! मुच्यते
ब्रह्महत्यया ।
प्रथमं प्रोच्यते ब्राह्मं द्वितीयं
चैन्द्रमुच्यते । । ५९
याम्यं प्रोक्तं ततो रौद्रं वायव्यं
वारुणं तथा ।
सावित्रं च तथा प्रोक्तमष्टमं
वैष्णवं तथा । । 1.1.६०
एतानि व्याकरणानि पुराणानि निबोध मे
।
ब्राह्मं पाद्मं वैष्णवं च शैवं
भागवतं तथा । । ६१
तथान्यन्नारदीयं च मार्कण्डेयं च
सप्तमम् ।
आग्नेयमष्टमं वीर भविष्यं नवमं
स्मृतम् । । ६२
दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं
स्मृतम् ।
वाराहं द्वादशं प्रोक्तं स्कान्दं
चैव त्रयोदशम् । । ६३
चतुर्दशं वामनं च कौर्मं पञ्चदशं
स्मृतम् ।
मात्स्यं च गारुडं चैव ब्रह्माण्डं
च ततः परम् । । ६४
एतानि कुरुशार्दूल धर्मशास्त्राणि
पण्डितैः ।
साधारणानि प्रोक्तानि वर्णानां
श्रेयसे सदा । । ६५
चतुर्णामिह राजेन्द्र श्रोतुमर्हाणि
सुव्रत ।
किमिच्छसि महाबाहो श्रोतुमेषां
नृपोत्तम । । ६६
शतानीक उवाच
भारतं तु श्रुतं विप्र
तातस्याङ्कगतेन तु ।
रामस्य चरितं चापि श्रुतं
ब्रह्मन्समन्ततः । । ६७
पुराणानि च विप्रेन्द्र भविष्यं न
तु सुव्रत ।
पुराणं वद विप्रेन्द्र! भविष्यं
कौतुकं हि मे । । ६८
सुमन्तुरुवाच
साधु साधु महाबाहो साधु पृष्टोऽस्मि
४ मानद ।
शृणु मे वदतो राजन् पुराणं नवमं
महत् । । ६९
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते
मानवो नृप ।
अश्वमेधफलं प्राप्य गच्छेद् भानौ न
संशयः । । 1.1.७०
इदं तु ब्रह्मणा प्रोक्तं धर्मशास्त्रमनुत्तमम्
।
विदुषा ब्राह्मणेनेदमध्येतव्यं
प्रयत्नतः ५ । । ७१
शिष्येभ्यश्चैव वक्तव्यं
चातुर्वर्ण्येभ्य एव हि ।
अध्येतव्यं न चान्येन ब्राह्मणं
क्षत्रियं विना । ।
श्रोतव्यमेव शूद्रेण नाध्येतव्यं
कदाचन ६ । । ७२
देवार्चां पुरतः १ कृत्वा
ब्राह्मणैश्च नृपोत्तम ।
श्रोतव्यमेव शूद्रैश्च तथान्यैश्च
द्विजातिभिः । । ७३
श्रौतं स्मार्तं हि वै धर्मं
प्रोक्तमस्मिन्नृपोत्तम ।
तस्माच्छूद्रैर्विना विप्रान्न
श्रोतव्यं कथञ्चन । ७४
इदं शास्त्रमधीयानो ब्राह्मणः
संशितव्रतः ।
मनोवाग्देहजैर्नित्यं कर्मदोषैर्न
लिम्पते । । ७५
शृण्वन्ति चापि ये राजन् भक्त्या वै
ब्राह्मणादयः ।
मुच्यन्ते पातकैः सर्वैर्गच्छन्ति च
दिवं प्रभो । । ७६
श्रावयेच्चापि यो विप्रः
सर्वान्वर्णान्नृपोत्तम ।
स गुरुः प्रोच्यते तात वर्णानामिह
सर्वशः । । ७७
स पूज्यः सर्वकालेषु
सर्वैर्वर्णैर्नराधिप ।
पृथिवीं च तथैवेमां कृत्स्नामेकोऽपि
सोऽर्हति । । ७८
इदं स्वस्त्ययनं श्रेष्ठमिदं
बुद्धिविवर्धनम् ।
इदं यशस्यं सततमिदं निःश्रेयसं परम्
। । ७९
अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च
कर्मणाम् ।
चतुर्णामपि वर्णानामाचारश्चापि
शाश्वतः । । 1.1.८०
आचारः प्रथमो धर्मः श्रुत्युक्तश्च
नरोत्तम ।
तस्मादस्मिन्समायुक्तो नित्यं
स्यादात्मवान्द्विजः । । ८१
आचाराद्विच्युतो विप्रो न
वेदफलमश्नुते ।
आचारेण च संयुक्तः
सम्पूर्णफलभाक्स्मृतः । । ८२
एवमाचारतो दृष्ट्वा धर्मस्य मुनयो
गतिम् ।
सर्वस्य तपसो मूलमाचारं जगृहुः परम्
। । ८३
अन्ये च मानवा राजन्नाचारं संश्रिता
सदा ।
एवमस्मिन्पुराणे तु आचारस्य तु
कीर्तनम् । । ८४
वृत्तान्तानि च राजेन्द्र तथा
चोक्तानि पण्डितैः ।
त्रिलोक्यास्तु समुत्पत्तिः
संस्कारविधिरुत्तमः । ।
श्रवणं चेतिहासस्य विधानं कथ्यते
नृप । । ८५
तथास्मिन्कथ्यते राजन्माहात्म्यं
वाचकस्य तु ।
व्रतचर्याश्रमाचाराः स्नातकस्य परो
विधिः । । ८६
दारादिगमनं चैव विवाहानां च लक्षणम्
।
पुंसां च लक्षणं राजन्योषितां चात्र
कथ्यते । । ८७
महायज्ञविधानं च शास्त्रकल्पं च
शाश्वतम् ।
पृथिव्या लक्षणं तात देवार्चायाः
सुलक्षणम् । । ८८
वृत्तीनां लक्षणं चैव स्नातकस्य
व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां
शुद्धिरेव च । । ८९
स्त्रीधर्मयोगस्तापस्यं मोक्षः
संन्यास एव च ।
राज्ञश्च धर्मो ह्यखिलः कार्याणां च
विनिर्णयः । । 1.1.९०
माहात्म्यं सवितुश्चात्र तीर्थानां
च विशाम्पते ।
नारायणस्य माहात्म्यं तथा रुद्रस्य
कथ्यते । । ९१
महाभाग्यं च विप्राणां माहात्म्यं
पुस्तकस्य च ।
दुर्गादेव्यास्तथा चोक्तं सत्यस्य च
महामते । । ९२
संक्षिप्तं १ संविधानं च धर्मं
स्त्रीपुंसयोरपि ।
विभागं धर्मद्यूतं च कथकानां च
शोधनम् । । ९३
वैश्यशूद्रोपचारं च संकीर्णानां च
संभवम् ।
आपद्धर्मं च वर्णानां
प्रायश्चित्तविधिं तथा । । ९४
संध्याविधिं प्रेतशुद्धिं
स्नानतर्पणयोर्विधिम् ।
वैश्वदेवविधिं चापि तथा भोज्यविधिं
नृप । । ९५
लक्षणं दन्तकाष्ठस्य
चरणव्यूहमुत्तमम् ।
संसारगमनं चैव त्रिविधं कर्मसम्भवम्
। । ९६
नैःश्रेयसं कर्मणां च
गुणदोषपरीक्षणम् ।
दाराणां लक्षणं प्रोक्तं तथा
पात्रपरीक्षणम् । । ९७
प्रसूतिं चापि गर्भस्य तथा कर्मफलं
नृप ।
जातिधर्मान्कुलधर्मान्वेदधर्मांश्च
१ पार्थिव । । ९८
वैतानव्रतिकानां च तथासौ
प्रोक्तवान्विभुः ।
ब्रह्मा कुरुकुलश्रेष्ठ शंकराय
महात्मने । । ९९
शंकरेण तथा विष्णोः कथितं कुरुनन्दन
।
विष्णुनापि पुनः प्रोक्तं नारदाय
महीपते । । 1.1.१००
नारदात्प्राप्तवाञ्छक्रः शक्रादपि
पराशरः ।
पराशरात्ततो व्यासो व्यासादपि मया
विभो । । १०१
एवं परम्पराप्राप्तं
पुराणमिदमुत्तमम् ।
शृणु त्वमपि राजेन्द्र
मत्सकाशात्परं हितम् । । १०२
सर्वाण्येव पुराणानि संज्ञेयानि
नरर्षभ ।
द्वादशैव सहस्राणि प्रोक्तानीह
मनीषिभिः । । १०३
पुनर्वृद्धिं गतानीह
आख्यानैर्विविधैर्वृष ।
यथा स्कान्दं तथा चेदं भविष्यं
कुरुनन्दन । । १०४
स्कान्दं शतसहस्रं तु लोकानां
ज्ञातमेव हि ।
भविष्यमेतदृषिणा लक्षार्द्धं
संख्यया कृतम् २ । । १०५
तच्छ्रुत्वा पुरुषो भक्त्या इदं
फलमवाप्नुयात् ।
ऋद्धिर्वृद्धिस्तथा श्रीश्च भवन्ति
तस्य निश्चितम् । । १०६
इति श्रीभविष्ये महापुराणे
शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि कथाप्रस्तावने प्रथमोऽध्यायः । १ ।
भविष्यपुराण ब्राह्म पर्व अध्याय १ भावार्थ सहित
भविष्यपुराण ब्राह्म पर्व
व्यास-शिष्य महर्षि सुमन्तु एवं
राजा शतानीक का संवाद, भविष्यपुराण की
महिमा एवं परम्परा
“नारायंण नमस्कृत्य नर व नरोत्तम।
देवी सरस्वतीं व्यास ततो जयपुदीरयेत्॥”
‘बदरिकाश्रम निवासी प्रसिद्ध ऋषि
श्रीनारायण तथा श्रीनर (अन्तर्यामी नारायणस्वरूप भगवान् श्रीकृष्ण तथा उनके
नित्य-सखा नरस्वरूप नरश्रेष्ठ अर्जुन, उनकी लीला प्रकट
करनेवाली भगवती सरस्वती और उनकी लीलाओं के वक्ता महर्षि वेदव्यास को नमस्कार कर
जय*-आसुरी सम्पत्तियों का नाश करके अन्तकरण पर दैवी सम्पत्तियों को विजय प्राप्त
कराने वाले वाल्मीकीय रामायण, महाभारत एवं अन्य सभी इतिहास
पुराणादि सद्ग्रन्थों का पाठ करना चाहिये।’
“जयति पराशरसूनुः
सत्यवती-हदय-नन्दनो व्यास: । यस्यास्यकमलगलितं वाङ्गमयममृतं जगत् पिबति ॥”
‘ पराशर के पुत्र तथा सत्यवती के
हृदय को आनन्दित करने वाले भगवान् व्यास की जय हो, जिनके
मुखकमल से नि:सृत अमृत-मयी वाणी का यह सम्पूर्ण विश्व पान करता है।’
“ यो गोशतं कनकश्रृङ्गमयं ददाति
विप्राय वेदविदुषे च बहुश्रुताय ।
पुण्यां भविष्यसुकथां श्रृणुयात्
समग्रां पुण्यं समं भवति तस्य च तस्य चैव ॥”
‘वेदादि शास्त्रों के जानने वाले
तथा अनेक विषयों के मर्मज्ञ विद्वान् ब्राह्मण को स्वर्ण-जटित सींगों वाली सैकड़ों
गौओं को दान देने से जो पुण्य प्राप्त होता है, ठीक उतना ही
पुण्य इस भविष्य-महापुराण की उत्तम कथाओं के श्रवण करने से प्राप्त होता है।’
एक समय व्यासजी के शिष्य महर्षि
सुमन्तु तथा वसिष्ठ, पराशर, जैमिनि, याज्ञवल्क्य, गौतम
वैशम्पायन, शौनक, अङ्गिरा और
भारद्वाजादि महर्षिगण पाण्डववंशमें समुत्पन्न महा-बलशाली राजा शतानीक की सभा में
गये। राजा ने उन ऋषियों का अर्घ्यादि से विधिवत् स्वागत-सत्कार किया और उन्हें उत्तम
आसनों पर बैठाया तथा भली-भाँति उनका पूजन कर विनय-पूर्वक इस प्रकार प्रार्थना की—
’हे महात्माओ ! आप लोगों के आगमन
से मेरा जन्म सफल हो गया। आप लोगों के स्मरण-मात्र से ही मनुष्य पवित्र हो जाता है,
फिर आपलोग मुझे दर्शन देनेके लिये यहाँ पधारे हैं, अत: आज मैं धन्य हो गया। आपलोग कृपा करके मुझे उन पवित्र एवं पुण्यमयी
धर्मशास्त्रकी कथाओं को सुनायें जिनके सुनने से मुझे परम-गति की प्राप्ति हो।’
ऋषियों ने कहा –
हे राजन्! इस विषय में आप हम सबके गुरु, साक्षात्
नारायण-स्वरूप भगवान् वेदव्यास से निवेदन करें। वे कृपालु हैं, सभी प्रकारके शास्त्रों के और विद्या ज्ञाता हैं। जिसके श्रवण-मात्र से
मनुष्य सभी पातकों से मुक्त हो जाता है, उस ‘महाभारत’ ग्रन्थके रचयिता भी यही हैं।
राजा शतानीक ने ऋषियों के कथनानुसार
सभी शास्त्रोंके जानने वाले भगवान् वेदव्यास से प्रार्थना-पूर्वक जिज्ञासा की ‘प्रभो! मुझे आप धर्म-मयी पुण्यकथाओं का श्रवण करायें, जिससे मैं पवित्र हो जाऊँ और इस संसार-सागर से मेरा उद्धार हो जाय।’
व्यासजी ने कहा-‘राजन्! यह मेरा शिष्य सुमन्तु महान् तेजस्वी एवं समस्त शास्त्रोंका ज्ञाता
है, यह आपकी जिज्ञासा को पूर्ण करेगा।’ मुनियों ने भी इस बात का अनुमोदन किया।
तदनन्तर राजा शतानीक ने महामुनि
सुमन्तु से उपदेश करने के लिये प्रार्थना की है – द्विजश्रेष्ठ ! आप कृपा-कर उन पुण्यमयी कथाओं का वर्णन करें, जिनके सुनने से सभी पाप नष्ट हो जाते हैं और शुभ फलों की प्राप्ति होती
है।
महामुनि सुमन्तु बोले—राजन्! धर्मशास्त्र सबको पवित्र करने वाले हैं। उनके सुनने से मनुष्य सभी
पापों से मुक्त हो जाता है। बताओ, तुम्हारी क्या सुनने की
इच्छा है?
राजा शतानीक ने कहा –
ब्राह्मणदेव! वे कौन से धर्मशास्त्र हैं, जिनके
सुनने से मनुष्य पापों से मुक्त हो जाता है।
सुमन्तु मुनि बोले—राजन्! मनु, विष्णु, यम अङ्गिरा, वसिष्ठ, दक्ष,
संवर्त, शातातप, पराशर,
आपस्तम्ब, उशना, कात्यायन,
बृहस्पति, गौतम, शङ्ख,
लिखित, हारीत तथा अत्रि आदि ऋषियों द्वारा
रचित मन्वादि बहुत-से धर्मशास्त्र हैं। इन धर्मशास्त्रों को सुनकर एवं उनके
रहस्यों को भली-भाँति हृदयङ्गम कर मनुष्य देवलोकमें जाकर परम आनन्द को प्राप्त
करता है, इसमें कोई संदेह नहीं है।
शतानीक ने कहा—प्रभो! जिन धर्मशास्त्रों को आपने कहा है, इन्हें
मैंने सुना है। अब इन्हें पुनः सुनने की इच्छा नहीं है। कृपा-कर आप चारों वर्णों
के कल्याण के लिये जो उपयुक्त धर्मशास्त्र हो उसे मुझे बतायें।
सुमन्तु मुनि बोले—हे महाबाहो ! संसार में निमग्न प्राणियों के उद्धार के लिये अठारह
महापुराण श्रीरामकथा तथा महाभारत आदि सद्ग्रन्थ नौकारूपी साधन हैं। अठारह
महापुराणों तथा आठ प्रकार के व्याकरणों को भली-भाँति समझकर सत्यवती के पुत्र
वेदव्यासजी ने ‘महाभारतसंहिता’ की रचना
की, जिसके सुनने से मनुष्य ब्रह्महत्या के पापों से मुक्त हो
जाता है। इनमें आठ प्रकार के व्याकरण ये हैं – ब्राह्म,
ऐन्द्र, याम्य, रौद्र,
वायव्य, वारुण, सावित्र्य
तथा वैष्णव। ब्रह्म, पद्म, विष्णु,
शिव, भागवत, नारदीय,
मार्कण्डेय, अग्नि, भविष्य,
ब्रह्मवैवर्त, लिङ्ग, वाराह,
स्कन्द, वामन, कूर्म,
मत्स्य, गरुड तथा ब्रह्माण्ड-ये अठारह
महापुराण हैं। ये सभी चारों वर्णों के लिये उपकारक हैं । इनमें से आप क्या सुनना
चाहते हैं ?
राजा शतानीक ने कहा –
हे विप्र ! मैंने महाभारत सुना है तथा श्रीरामकथा भी सुनी है,
अन्य पुराणों को भी सुना है, किंतु
भविष्य-पुराण नहीं सुना है। अत: विप्रश्रेष्ठ ! आप भविष्य-पुराण को मुझे सुनायें।
इस विषयमें मुझे महत् कौतूहल है।
सुमन्तु मुनि बोले-राजन्! आपने बहुत
उत्तम बात पूछी है। मैं आपको भविष्य पुराण की कथा सुनाता हूं,
जिसके श्रवण करने से ब्रह्महत्या आदि बड़े-बड़े पाप नष्ट हो जाते
हैं और अश्वमेधादि यज्ञों का पुण्य-फल प्राप्त होता है तथा अन्त में सूर्य-लोक की
प्राप्ति होती है, इसमें कोई संदेह नहीं। यह उत्तम पुराण
पहले ब्रह्माजी द्वारा कहा गया है। विद्वान् ब्राह्मण को इसका सम्यक् अध्ययन कर
अपने शिष्यों तथा चारों वर्णों के लिये उपदेश करना चाहिये। इस पुराणमें श्रौत एवं
स्मार्त सभी धर्मों का वर्णन हुआ है। यह पुराण परम मङ्गल-प्रद-सद्बुद्धि को बढ़ाने
वाला यश एवं कीर्ति प्रदान करने वाला तथा परमपद-मोक्ष प्राप्त कराने वाला है –
इदं स्वस्त्ययंन श्रेष्ठमिदं
बुद्धिविवर्धनम्। इदं यशस्यं सततमिदं निःश्रेयसं परम्॥ (ब्राह्मपर्व १।७९)
इस भविष्यपुराण में सभी धर्मो का
संनिवेश हुआ है तथा सभी कर्मों के गुणों और दोषों के फलों का निरूपण किया गया है।
चारों वर्णों तथा आश्रमों के सदाचार का भी वर्णन किया गया है,
क्योंकि ‘सदाचार ही श्रेष्ठ धर्म है’ ऐसा श्रुतियों ने कहा है, इसलिये ब्राह्मण को नित्य
आचार का पालन करना चाहिये, क्योंकि सदाचार से विहीन ब्राह्मण
किसी भी प्रकार वेद के फल को प्राप्त नहीं कर सकता। सदा आचार का पालन करने पर तो
वह सम्पूर्ण फलों का अधिकारी हो जाता है, ऐसा कहा गया है।
सदाचार को ही मुनियों ने धर्म तथा तपस्याओंका मूल आधार माना है, मनुष्य भी इसीका आश्रय लेकर धर्माचरण करते हैं। इस प्रकार इस
भविष्य-महा-पुराण में आचार का वर्णन किया गया है । तीनों लोकों की उत्पत्ति,
विवाहादि संस्कार-विधि, स्त्री-पुरुषों के
लक्षण, देव-पूजा का विधान, राजाओं के
धर्म एवं कर्तव्य का निर्णय, सूर्य, नारायण,
विष्णु, रुद्र, दुर्गा
तथा सत्यनारायण का माहात्म्य एवं पूजा-विधान, विविध तीर्थ का
वर्णन आपद्धर्म तथा प्रायश्चित्त-विधि, संध्या-विधि, स्नान-तर्पण-वैश्वदेव-भोजन-विधि, जाति-धर्म, कुल-धर्म, वेद-धर्म तथा यज्ञ-मण्डल में अनुष्ठित
होने वाले विविध यज्ञों का वर्णन हुआ है।
हे कुरुश्रेष्ठ शतानीक ! इस महापुराण को ब्रह्माजी ने शंकर को, शंकर ने विष्णु को, विष्णु ने नारद को, नारद ने इन्द्र को, इन्द्र ने पराशर, को तथा पराशर ने व्यास को सुनाया और व्यास से मैंने प्राप्त किया। इस प्रकार परम्परा-प्राप्त इस उत्तम भविष्य-महा-पुराण को मैं आपसे कहता हूँ, इसे सुनें।
भविष्यपुराण ब्राह्म पर्व अध्याय १
सम्पूर्ण
आगे पढ़ें- भविष्यपुराण – ब्राह्म पर्व – अध्याय २
No comments:
Post a Comment
Please do not enter any spam link in the comment box