श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २१

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २१                                  

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २१ सूर्यपुत्री कालिन्दी की कथा का वर्णन है।

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २१

श्रीगरुडमहापुराणम् ब्रह्मकाण्डः (मोक्षकाण्डः) एकविंशतितमोऽध्यायः

Garud mahapuran Brahmakand chapter 21

श्रीगरुड महापुराण ब्रह्मकाण्ड ईकीसवां अध्याय  

गरुड महापुराण ब्रह्मकाण्ड अध्याय २१   

गरुड महापुराण ब्रह्मकाण्ड अध्याय २१ का संक्षिप्त हिन्दी अनुवाद

गरुडपुराणम् ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः २१

अध्यायः २१ श्रीगरुडमहापुराणम्

श्रीकृष्ण उवाच ।

कालिन्द्या अपि चोत्पत्तिं प्रवक्ष्यामि खगेश्वर ।

विवस्वान्नाम सूर्योभत्तस्य पुत्री व्यजायत ॥ ३,२१.१ ॥

श्रीकृष्ण ने कहा- हे खगेश्वर ! अब मैं कालिन्दी की उत्पत्ति के विषय में बता रहा हूँ, आप सुनें - विवस्वान् नाम के सूर्य की कालिन्दी नामवाली एक पुत्री उत्पन्न हुई।

कालिन्दीसंज्ञका वीन्द्र यमुना यानुजा स्मृता ।

कृष्णपत्नीत्वकामेन चचार तप उत्तमम् ॥ ३,२१.२ ॥

तप आलोचनं प्रोक्तं तत्त्वानां च विनिर्णयः ।

पूर्वार्जितानां पापानामनुतापस्तपः स्मृतम् ॥ ३,२१.३ ॥

प्रायो नाम तपः प्रोक्तं चित्तनिग्रह उच्यते ।

प्रायश्चित्तमिति प्रोक्तं न तु क्षौरं खगेश्वर ॥ ३,२१.४ ॥

अनुतापयुतं भूतं तच्छणु त्वं खगेश्वर ।

पूर्वं न जप्तं दिव्यमन्त्रं मुकुन्द तप्तं सदा क्लेशदावानलेन ॥ ३,२१.५ ॥

न वै स्मृतं हरिनामामृतं च सदा स्मृतं हरिदोषादिकं च ।

न तु स्मृतं हरितत्त्वामृतं च सम्यक्श्रुतं लोलवार्तादिकं च ॥ ३,२१.६ ॥

न पूजितं हरिपादारविन्दं सुपूजिताः पुत्रमित्रादिकाश्च ।

न वन्दितं हरिपादारविन्दं सुवन्दितो मित्रपादः सुघोरः ॥ ३,२१.७ ॥

न दृष्टं वै धूपधूम्रैरुपेतं हरेर्वक्रं कुन्तलैः संवृतं च ।

पुत्रादिकं लालितं वै मुकुन्द न लालितं तव वक्रं मुरारे ॥ ३,२१.८ ॥

सुलालितं भूषणैः पुत्रमित्रं न लालितं सर्वपापापहारि ।

न भुक्तं वै हरिनैरवेद्यशेषं मित्रालये षड्रसान्नं च भुक्तम् ॥ ३,२१.९ ॥

सुपुष्पगन्धा नार्पिता ते मुरारे समर्पिताः पुत्रमित्रादिकेभ्यः ।

सन्तप्तोहं पुत्रमित्रादिकेषु कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ॥ ३,२१.१० ॥

अवैष्णवान्नैः शिग्रुशाकादिकैश्च ह्यनर्पितान्नैश्च तथाप्यसंस्कृतैः ।

तथाप्यभक्ष्यै रसना च दग्धा कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ॥ ३,२१.११ ॥

अष्टाक्षरीपूजया दिव्यतीर्थैर्विष्णोः पुरा भ्रामितैः शङ्खतीर्थैः ।

न पावितं मच्छरीरं मुरारे कदा द्रक्ष्ये तव व क्त्रं मुकुन्द ॥ ३,२१.१२ ॥

अनर्पितैर्गन्धपुष्पादिकैश्च अनर्पितैर्भूषणैर्वस्त्रजातैः ।

अवैष्णवानां दिग्धगन्धादिदोषैर्गात्रं दग्धं कदा ह्युद्धरिष्ये मुकुन्द ॥ ३,२१.१३ ॥

दग्धौ च पादौ मम वासुदेव न गच्छन्तौ क्षेत्रपथं हरेश्च ।

नेत्रे च दग्धे मम सर्वदापि नालोकितं तव देव प्रतीकम् ॥ ३,२१.१४ ॥

दग्धौ च हस्तौ मम वासुदेव न पूजितं तव विष्णोः प्रतीकम् ।

मया कृतं पापजातं मुरारे कदा द्रक्ष्ये तव वक्रं मुकुन्द ॥ ३,२१.१५ ॥

मदीयदोषान्गणयन्न पूर्ण दयां कुरु त्वं सुद्धदास्यान्मुकुन्द ।

यावन्ति लोमानि मदीयगात्रे संति प्रभो सर्वदोर्षर्विदूर ॥ ३,२१.१६ ॥

तावन्ति पापानि मदीयगात्रे कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ।

अनन्तदेहे पतिपुत्रैर्गृहैश्च मित्रैर्धनैः पशुभृत्यादिकैश्च ॥ ३,२१.१७ ॥

सुखं नाप्तं ह्यपुमात्रं मुकुन्द सेवा मुक्ता तव देवस्य विष्णोः ।

इतः परं पुत्रमित्रादिकं च यास्ये नाहं तव दासी भवामि ॥ ३,२१.१८ ॥

येये ब्रूयुः पुत्रमित्रादिकैश्च सम्यक्सुखं जायते मर्त्यलोके ।

तेषामास्ये मूत्रविष्ठादिकं च सम्यक्सदा पतितं चेति जाने ॥ ३,२१.१९ ॥

मित्रादीनां यत्कृतं द्रव्यजातं वृथा गतं मलरूपं च जातम् ।

सद्वैष्णवानां यत्कृतं द्रव्यजातं हरिप्राप्तेः कारणं स्यात्सदैव ॥ ३,२१.२० ॥

एतादृशं तत्तु जातं मुकुन्द अलं ह्यलं तेन दुःखं च भुक्तम् ।

संगं दत्तात्सज्जनानां सदा त्वं विना च त्वं दुर्जनानां च संगात् ॥ ३,२१.२१ ॥

संगैः सदा दुर्जनानां मुरारे गात्रं दग्धं न विरागेण युक्तम् ।

एतादृशाहं कां गातिं वा मुकुन्द यास्ये न जाने दयया मां च पाहि ॥ ३,२१.२२ ॥

हे पक्षिराज ! उस कालिन्दी को यमुना तथा यमानुजा के नाम से भी कहा गया है। भगवान् कृष्ण की पत्नी बनने की इच्छा से उसने विशिष्ट तप किया था । पूर्वजन्म में अर्जित पापों का अनुताप अर्थात् उनका शमन करना तप है। हे पक्षिराज ! अब आप अनुताप के विषय में सुनें—- पूर्वजन्म में जिसने भगवान् मुकुन्द के दिव्य मन्त्रों का जप नहीं किया, हरिनामामृत का स्मरण नहीं किया, भगवान्के पादारविन्दों की वन्दना नहीं की, हरि के नैवेद्य को ग्रहण नहीं किया, सुन्दर गन्ध से युक्त पुष्पों को मुरारि को अर्पित नहीं किया, भगवान्‌ की भक्ति नहीं की, ऐसा सोच-सोचकर मन में जो पश्चात्ताप होता है, दुःख होता है वह कहने लगता है - हे मुकुन्द ! मैं इस पुत्र - मित्र – कलत्रादि से युक्त संसार में अत्यन्त संतप्त हो रहा हूँ, हे भगवन्! कब मैं आपके मुखारविन्द का दर्शन करूँगा, मुझसे आपकी सेवा-पूजा नहीं हुई है, मेरा उद्धार कैसे होगा ? हे हरे ! मैं महान् पापी हूँ कब मुझे आपके दर्शन होंगे! हे प्रभो ! मैंने अनन्त जन्मों में सांसारिक सम्बन्धों के द्वारा अणुमात्र भी सुख नहीं प्राप्त किया और न तो मैं आपकी सेवा ही कर सका हूँ और न आपके भक्तजनों की संगति ही कर सका हूँ, हे मुरारे! मेरा शरीर कष्ट से जल रहा है। ऐसा अगतिक मैं अब आप मुकुन्द की शरण छोड़कर और किसकी शरण में जाऊँ ? हे भगवन् ! मुझ पर दया कर मेरी रक्षा करें ।'

एतादृशो ह्यनुतापः खगेन्द्र प्रायश्चित्तं न च क्षौरादिकं च ।

भानोः कन्या ह्यनुतापं च कृत्वा विचारयामास हरेः सुतत्त्वम् ॥ ३,२१.२३ ॥

सर्वोत्तमो हरिरेकः सदैव यतः पूर्णः सर्वगुणैस्ततश्च ।

सृष्टौ यस्माज्जयते विश्वजातमतो हरिः सर्वगुणैश्च पूर्णः ॥ ३,२१.२४ ॥

यो देवानामाद्य अकार एव यतो ब्रह्माद्या नैव पूर्णाः समस्ताः ।

लक्ष्मीप्रसादाच्चिरपुण्येन जातो यथायोग्यं पूर्णगुणो विरिञ्चः ॥ ३,२१.२५ ॥

न लक्ष्मीवद्गुणपूर्णो विरिञ्चो न विष्णुवद्गुणपूर्णा रमापि ।

न वायुवद्भारती चापि पूर्णा न शेषवद्वारुणी चापि पूर्णा ॥ ३,२१.२६ ॥

न वै रुद्रवत्पार्वती पूर्णरूपा ह्यन्येप्येवं नैव पूर्णाः सदैव ।

आलोचनामेवमेषा हि कृत्वा तपश्चक्रे यमुनायाश्च तीरे ॥ ३,२१.२७ ॥

श्रीकृष्ण ने पुनः कहा- हे पक्षिराज ! इस प्रकार का पश्चात्ताप करना ही अनुताप है। इसका नाम तप भी है। हे पक्षिराज ! सूर्यपुत्री उस कालिन्दी ने भी इसी प्रकार का अनुताप करते हुए यमुना के तट पर तपस्या की और श्रीहरि के ध्यान में वह निमग्न हो गयी ।

तदाचाहं यमुनायाश्च तीरं पार्थेन साकं मृगयां गतः खग ।

दृष्ट्वा च तां तत्र तपश्चरन्तीं तदाब्रुवं मत्सखायं च पार्थम् ॥ ३,२१.२८ ॥

हे पार्थ शीघ्रं व्रज कन्यासमीपं त्वं पृच्छ कस्मादत्र तपः करोषि ।

एवं प्रोक्तस्तत्समीपं स गत्वा पृष्ट्वा चैतत्कारणं शीघ्रमेव ॥ ३,२१.२९ ॥

आगत्य मामवदत्फाल्गुनोयं सर्वं वृत्तांन्तं त्वसौ मत्समीपे ।

ततस्त्वहं सुमुहूर्ते च तस्याः पाणिग्रहं कृतवांस्तत्र सम्यक् ॥ ३,२१.३० ॥

तस्याश्च तापात्संततं मद्विचारात्प्रसन्नोहं सततं सुप्रसन्नः ।

पूर्णानन्दे रममाणास्य नित्यं तया च मे किं सुखंस्यात्खगेन्द्र ॥ ३,२१.३१ ॥

मया विवाहोनुग्रहार्थं हि तस्या अङ्गीकृतो न तु सौख्याय वीन्द्र ।

तथा वक्ष्ये लक्ष्मणायाश्च रूपं पाणिग्राहे कारणं चापि वीन्द्रा ॥ ३,२१.३२ ॥

शृणुष्व तत्तव वक्ष्यामि गोप्यं सच्छिष्यके नास्ति गोप्यं गुरोश्च ॥ ३,२१.३३ ॥

तत्पश्चात् हे पक्षिराज ! एक दिन मैं अर्जुन के साथ यमुना के तट पर गया । तप करती हुई उसको वहाँ देखकर मैंने अपने मित्र अर्जुन से कहा कि हे पार्थ! आप शीघ्र ही उस कन्या के समीप में जाकर पूछें कि 'वह किस कारण से तप कर रही है' मेरे ऐसा कहने पर अर्जुन ने वैसा ही किया और कालिन्दी का सब वृत्तान्त भी बता दिया। तत्पश्चात् मैंने शुभ मुहूर्त आने पर सम्यक् रीति से वहाँ जाकर उस कालिन्दी का पाणिग्रहण किया । हे पक्षिश्रेष्ठ! मुझ पूर्णानन्द को किस सुख की अभिलाषा है ? फिर भी उस पर अनुग्रह करने की दृष्टि से ही मैंने उस कालिन्दी का पाणिग्रहण किया है।

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भगवतः कालिन्द्या विवाहे हेतुनिरूपणं नामैकविंशोऽध्यायः॥

जारी-आगे पढ़े............... गरुड महापुराण ब्रह्मकाण्ड अध्याय 22

No comments:

Post a Comment

Please do not enter any spam link in the comment box