श्रीमद्भागवतमाहात्म्यम् –
अध्याय ६
यहाँ श्रीपद्मपुराण के उत्तरखण्ड में वर्णित श्रीमद्भागवतमाहात्म्यम् का वर्णन में किया गया है, जो की ६ अध्यायों में है। यहाँ इसका मूलपाठ तथा भावार्थ सहित दिया जा रहा है। श्रीमद्भागवतमाहात्म्यम् – अध्याय ६ में श्रीमद्भागवत सप्ताहपारायणविधिःका वर्णन है।
श्रीमद्भागवतमाहात्म्यम् – अध्याय ६ श्रीपद्मपुराण
ॐ गणेशाय नमः
ॐ नमो भगवते वासुदेवाय
श्रीमद्भागवतपुराणम्/माहात्म्य
(पाद्मे)/अध्यायः ०६
श्रीमद्भागवतमाहात्म्यम् -
षष्ठोऽध्यायः
कुमारा ऊचुः -
(अनुष्टुप्)
अथ ते संप्रवक्ष्यामः सप्ताहश्रवणे
विधिम् ।
सहायैर्वसुभिश्चैव प्रायः साध्यो
विधिः स्मृतः ॥ १ ॥
दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य
यत्नतः ।
विवाहे यादृशं वित्तं तादृशं
परिकल्पयेत् ॥ २ ॥
नभस्य आश्विनोर्जौ च मार्गशीर्षः
शुचिर्नभाः ।
एते मासाः कथारम्भे श्रोतॄणां
मोक्षसूचकाः ॥ ३ ॥
मासानां विप्र हेयानि तानि
त्याज्यानि सर्वथा ।
सहायाश्चेतरे तत्र कर्तव्याः
सोद्यमाश्च ये ॥ ४ ॥
देशे देशे तथा सेयं वार्ता प्रेष्या
प्रयत्नतः ।
भविष्यति कथा चात्र आगन्तव्यं
कुटुम्बिभिः ॥ ५ ॥
दूरे हरिकथाः केचित् दूरे
चाच्युतकीर्तनाः ।
स्त्रियः शूद्रादयो ये च तेषां बोधो
यतो भवेत् ॥ ६ ॥
देशे देशे विरक्ता ये वैष्णवाः
कीर्तनोत्सुकाः ।
तेष्वेव पत्रं प्रेष्यं च तल्लेखनं
इतीरितम् ॥ ७ ॥
सतां समाजो भविता सप्तरात्रं
सुदुर्लभः ।
अपूर्वरसरूपैव कथा चात्र भविष्यति ॥
८ ॥
श्रीमद्भागवत पीयुष पानाय
रसलम्पटाः ।
भवन्तश्च तथा शीघ्रं आयात
प्रेमतत्पराः ॥ ९ ॥
नावकाशः कदाचित् चेत् दिनमात्रं
तथापि तु ।
सर्वथाऽऽगमनं कार्यं क्षणोऽत्रैव
सुदुर्लभः ॥ १० ॥
एवमाकारणं तेषां कर्तव्यं विनयेन च
।
आगन्तुकानां सर्वेषां वासस्थानानि
कल्पयेत् ॥११ ॥
तीर्थे वापि वने वापि गृहे वा
श्रवणं मतम् ।
विशाला वसुधा यत्र कर्तव्यं
तत्कथास्थलम् ॥ १२ ॥
शोधनं मार्जनं भूमेः लेपनं
धातुमण्डनम् ।
गृहोपस्करमुद्ध्रुत्य गृहकोणे
निवेशयेत् ॥ १३ ॥
अर्वाक् पंचाहतो यत्नात्
आस्तीर्णानि प्रमेलयेत् ।
कर्तव्यो मण्डपः प्रोच्चैः
कदलीखण्डमण्डितः ॥ १४ ॥
फलपुष्पदलैर्विष्वक् वितानेन
विराजितः ।
चतुर्दिक्षु ध्वजारोपो
बहुसम्पद्विराजितः ॥ १५ ॥
ऊर्ध्वं सप्तैव लोकाश्च कल्पनीयाः
सविस्तरम् ।
तेषु विप्रा विरक्ताश्च स्थापनीयाः
प्रबोध्य च ॥ १६ ॥
पूर्वं तेषां आसनानि कर्तव्यानि
यथोत्तरम् ।
वक्तुश्चापि तदा दिव्यं आसनं
परिकल्पयेत् ॥ १७ ॥
उदङ्मुखो भवेद्वक्ता श्रोता वै
प्राङ्मुखस्तदा ।
प्राङ्मुखश्चेत् भवेद्वक्ता
श्रोता च उदङ्मुखस्तदा ॥ १८ ॥
अथवा पूर्वदिग्ज्ञेया
पूज्यपूजकमध्यतः ।
श्रोतॄणां आगमे प्रोक्ता
देशकालादिकोविदैः ॥ १९ ॥
विरक्तो वैष्णवो विप्रो
वेदशास्त्रविशुद्धिकृत् ।
दृष्टान्तकुशलो धीरो वक्ता
कार्योऽति निःस्पृह ॥ २० ॥
अनेकधर्मनिभ्रान्ताः स्त्रैणाः
पाखण्डवादिनः ।
शुकशास्त्रकथोच्चारे त्याज्यास्ते
यदि पण्डिताः ॥ २१ ॥
वक्तुः पार्श्वे सहायार्थं अन्यः
स्थाप्यस्तथाविधः ।
पण्डितः संशयच्छेत्ता लोकबोधनतत्परः
॥ २२ ॥
वक्त्रा क्षौरं प्रकर्तव्यं दिनाद्
अर्वाक् व्रताप्तये ।
अरुणोदयेऽसौ निर्वर्त्य शौचं स्नानं
समाचरेत् ॥ २३ ॥
नित्यं संक्षेपतः कृत्वा संध्याद्यं
स्वं प्रयत्नतः ।
कथाविघ्नविघाताय गणनाथं प्रपूजयेत्
॥ २४ ॥
पितॄन् संतर्प्य शुद्ध्यर्थं
प्रायश्चित्तं समाचरेत् ।
मण्डलं च प्रकर्तव्यं तत्र स्थाप्यो
हरिस्तथा ॥ २५ ॥
कृष्णमुद्दिश्य मंत्रेण चरेत्
पूजाविधिं क्रमात् ।
प्रदक्षिण नमस्कारान् पूजान्ते
स्तुतिमाचरेत् ॥ २६ ॥
संसारसागरे मग्नं दीनं मां
करुणानिधे ।
कर्ममोहगृहीताङ्गं मामुद्धर
भवार्णवात् ॥ २७ ॥
श्रीमद्भागवतस्यापि ततः पूजा
प्रयत्नतः ।
कर्तव्या विधिना प्रीत्या
धूपदीपसमन्विता ॥ २८ ॥
ततस्तु श्रीफलं धृत्वा नमस्कारं
समाचरेत् ।
स्तुतिः प्रसन्नचित्तेन कर्तव्या
केवलं तदा ॥ २९ ॥
श्रीमद्भागवताख्योऽयं प्रत्यक्षः
कृष्ण एव हि ।
स्वीकृतोऽसि मया नाथ मुक्त्यर्थं
भवसागरे ॥ ३० ॥
मनोरथो मदीयोऽयं सफलः सर्वथा त्वया
।
निर्विघ्नेनैव कर्तव्य दासोऽहं तव
केशव ॥ ३१ ॥
एवं दीनवचः प्रोच्य वक्तारं चाथ
पूजयेत् ।
सम्भूष्य वस्त्रभूषाभिः पूजान्ते तं
च संस्तवेत् ॥ ३२ ॥
शुकरूप प्रबोधज्ञ सर्वशास्त्रविशारद
।
एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥
३३ ॥
तदग्रे नियमः पश्चात् कर्तव्यः
श्रेयसे मुदा ।
सप्तरात्रं यथाशक्त्या धारणीयः स एव
हि ॥ ३४ ॥
वरणं पंचविप्राणां कथाभङ्गनिवृत्तये
।
कर्तव्यं तैः हरेर्जाप्यं
द्वादशाक्षरविद्यया ॥ ३५ ॥
ब्राह्मणान् वैष्णवान् चान्यान् तथा
कीर्तनकारिणः ।
नत्वा संपूज्य दत्ताज्ञः स्वयं
आसनमाविशेत् ॥ ३६ ॥
लोकवित्तधनागार पुत्रचिन्तां
व्युदस्य च ।
कथाचित्तः शुद्धमतिः स लभेत्फलमुत्तमम्
॥ ३७ ॥
आसूर्योदयमारभ्य
सार्धत्रिप्रहरान्तकम् ।
वाचनीया कथा सम्यक् धीरकण्ठं
सुधीमता ॥ ३८ ॥
कथाविरामः कर्तव्यो मध्याह्ने
घटिकाद्वयं ।
तत्कथामनु कार्यं वै कीर्तनं
वैष्णवैस्तदा ॥ ३९ ॥
मलमूत्रजयार्थं हि लघ्वाहारः
सुखावहः ।
हविष्यान्नेन कर्तव्यो हि,
एकवारं कथार्थिना ॥ ४० ॥
उपोष्य सप्तरात्रं वै शक्तिश्चेत्
श्रुणुयात् तदा ।
घृतपानं पयःपानं कृत्वा वै
श्रृणुयात् सुखम् ॥ ४१ ॥
फलाहारेण वा भाव्यं एकभुक्तेन वा
पुनः ।
सुखसाध्यं भवेद् यत्तु कर्तव्यं
श्रवणाय तत् ॥ ४२ ॥
भोजनं तु वरं मन्ये कथाश्रवणकारकम्
।
नोपवासो वरः प्रोक्तः कथाविघ्नकरो
यदि ॥ ४३ ॥
सप्ताहव्रतिनां पुंसां नियमान्
श्रुणु नारद ।
विष्णुदीक्षाविहीनानां नाधिकारः
कथाश्रवे ॥ ४४ ॥
ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां
च भोजनम् ।
कथासमाप्तौ भुक्तिं च कुर्यात्
नित्यं कथाव्रती ॥ ४५ ॥
द्विदलं मधु तैलं च गरिष्ठान्नं
तथैव च ।
भावदुष्टं पर्युषितं जह्यात् नित्यं
कथाव्रती ॥ ४६ ॥
कामं क्रोधं मदं मानं मत्सरं लोभमेव
च ।
दम्भ मोहं तथा द्वेषं दूरयेच्च
कथाव्रती ॥ ४७ ॥
वेदवैष्णवविप्राणां गुरुगोव्रतिनां
तथा ।
स्त्रीराजमहतां निन्दां वर्जयेत् यः
कथाव्रती ॥ ४८ ॥
रजस्वला अन्त्यज म्लेच्छ पतित
व्रात्यकैस्तथा ।
द्विजद्विड् वेदबाह्यैश्च न वदेत्
यः कथाव्रती ॥ ४९ ॥
सत्यं शौचं दयां मौनं आर्जवं विनयं
तथा ।
उदारमानसं तद्वत् एवं कुर्यात्
कथाव्रती ॥ ५० ॥
दरिद्रश्च क्षयी रोगी निर्भाग्यः
पापकर्मवान् ।
अनपत्यो मोक्षकामः श्रुणुयाच्च
कथामिमाम् ॥ ५१ ॥
अपुष्पा काकवन्ध्या च वन्ध्या या च
मृतार्भका ।
स्रवत् गर्भा च या नारी तया
श्राव्या प्रयत्नतः ॥ ५२ ॥
एतेषु विधिना श्रावे तदक्षयतरं
भवेत् ।
अत्युत्तमा कथा दिव्या
कोटियज्ञफलप्रदा ॥ ५३ ॥
एवं कृत्वा व्रतविधिं उद्यापनं
अथाचरेत् ।
जन्माष्टमी व्रतमिव कर्तव्यं
फलकांक्षिभिः ॥ ५४ ॥
अकिंचनेषु भक्तेषु प्रायो
नोद्यापनाग्रहः ।
श्रवणेनैव पूतास्ते निष्कामा
वैष्णवा यतः ॥ ५५ ॥
एवं नगाहयज्ञेऽस्मिन् समाप्ते
श्रोतृभिस्तदा ।
पुस्तकस्य च वक्तुश्च पूजा
कार्यातिभक्तितः ॥ ५६ ॥
प्रसादतुलसीमाला श्रोतृभ्यश्चाथ
दीयताम् ।
मृदंगतालललितं कर्तव्यं कीर्तनं ततः
॥ ५७ ॥
जयशब्दं नमःशब्दं शंखशब्दं च
कारयेत् ।
विप्रेभ्यो याचकेभ्यश्च वित्तं
अन्नं च दीयताम् ॥ ५८ ॥
विरक्तश्चेत् भवेत् श्रोता गीता
वाद्या परेऽहनि ।
गृहस्थश्चेत् तदा होमः कर्तव्यः
कर्मशान्तये ॥ ५९ ॥
प्रतिश्लोकं तु जुहुयात् विधिना
दशमस्य च ।
पायसं मधु सर्पिश्च तिलान्
आदिकसंयुतम् ॥ ६० ॥
अथवा हवनं कुर्याद् गायत्र्या
सुसमाहितः ।
तन्मयत्वात् पुराणस्य परमस्य च
तत्त्वतः ॥ ६१ ॥
होमाशक्तौ बुधो हौम्यं दद्यात्
तत्फल सिद्धये ।
नानाच्छिद्रनिरोधार्थं
न्यूनताधिकतानयोः ॥ ६२ ॥
दोषयोः प्रशमार्थं च पठेत्
नामसहस्रकम् ।
तेन स्यात् सफलं सर्वं
नास्त्यस्मादधिकं यतः ॥ ६३ ॥
द्वादश ब्राह्मणान् पश्चात् भोजयेत्
मधुपायसैः ।
दद्यात् सुवर्णं धेनुं च
व्रतपूर्णत्वहेतवे ॥ ६४ ॥
शक्तौ पलत्रयमितं स्वर्णसिंहं विधाय
च ।
तत्रास्य पुस्तकं स्थाप्यं लिखितं
ललिताक्षरम् ॥ ६५ ॥
संपूज्य आवाहनाद्यैः तद् उपचारैः
सदक्षिणम् ।
वस्त्रभूषण गन्धाद्यैः पूजिताय
यतात्मने ॥ ६६ ॥
आचार्याय सुधीर्दत्त्वा मुक्तः
स्याद् भवबंधनैः ।
एवं कृते विधाने च सर्वपापनिवारणे ॥
६७ ॥
फलदं स्यात् पुराणं तु श्रीमद्भागवतं
शुभम् ।
धर्मकामार्थमोक्षाणां साधनं स्यात्
न संशयः ॥ ६८ ॥
कुमारा ऊचुः -
इति ते कथितं सर्वं किं भूयः
श्रोतुमिच्छसि ।
श्रीमद्भागवतेनैव भुक्तिमुक्ति करे
स्थिते ॥ ६९ ॥
सूत उवाच -
इत्युक्त्वा ते महात्मानः
प्रोचुर्भागवतीं कथाम् ।
सर्वपापहरां पुण्यां
भुक्तिमुक्तिप्रदायिनीम् ॥ ७० ॥
श्रृण्वतां सर्वभूतानां सप्ताहं
नियतात्मनाम् ।
यथाविधि ततो देवं तुष्टुवुः
पुरुषोत्तमम् ॥ ७१ ॥
तदन्ते ज्ञानवैराग्य-भक्तीनां
पुष्टता परा ।
तारुण्यं परमं चाभूत्
सर्वभूतमनोहरम् ॥ ७२ ॥
नारदश्च कृतार्थोऽभूत् सिद्धे
स्वीये मनोरथे ।
पुलकीकृतसर्वाङ्ग परमानन्दसम्भृतः
॥ ७३ ॥
एवं कथां समाकर्ण्य नारदो
भगवत्प्रियः ।
प्रेमगद्गदया वाचा तानुवाच
कृताञलिः ॥ ७४ ॥
नारद उवाच -
धन्योस्मि अनुगृहितोऽस्मि भवद्भिः
करुणापरैः ।
अद्य मे भगवान् लब्धः सर्वपापहरो
हरिः ॥ ७५ ॥
श्रवणं सर्वधर्मेभ्यो वरं मन्ये तपोधनाः
।
वैकुण्ठस्थो यतः कृष्णः श्रवणाद्
यस्य लभ्यते ॥ ७६ ॥
सूत उवाच -
एवं ब्रुवति वै तत्र नारदे
वैष्णवोत्तमे ।
परिभ्रमन् समायातः शुको
योगेश्वरास्तदा ॥ ७७ ॥
(वंशस्थ)
तत्राययौ षोडशवार्षिकस्तदा
व्यासात्मजो ज्ञानमहाब्धिचन्द्रमाः ।
कथावसाने निजलाभपूर्णः
प्रेम्णा पठन् भागवतं शनैः शनैः ॥ ७८ ॥
(इंद्रवंशा)
दृष्ट्वा सदस्याः परमोरुतेजसं
सद्यः समुत्थाय ददुर्महासनम् ।
प्रीत्या सुरर्षिस्तमपूजयत् सुखं
स्थितोऽवदत् संश्रृणुतामलां गिरम् ॥ ७९ ॥
श्रीशुक उवाच -
(द्रुतविलंबित)
निगमकल्पतरोर्गलितं फलं
शुकमुखात् अमृतद्रवसंयुतम् ।
पिबत भागवतं रसमालयं
मुहुरको रसिका भुवि भावुकाः ॥ ८० ॥
(शार्दूलविक्रीडित)
धर्मप्रोज्झितकैतवोऽत्र परमो
निर्मत्सराणां सतां
वेद्यं वास्तवमत्र वस्तु शिवदं
तापत्रयोन्मूलनम् ।
श्रीमद्भागवते महामुनिकृते किं वा
परैरीश्वरः
सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः
शुश्रूषुभिस्तत्क्षणात् ॥ ८१ ॥
श्रीमद्भागवतं पुराणतिलकं यद्वैष्णवानां
धनं
यस्मिन् पारमहंस्यमेवममलं ज्ञानं परं गीयते
।
यत्र ज्ञानविरागभक्तिसहितं
नैष्कर्म्यमाविष्कृतं
तत् श्रुण्वन् प्रपठन् विचारणपरो भक्त्या
विमुच्येन्नरः ॥ ८२ ॥
(अनुष्टुप्)
स्वर्गे सत्ये च कैलासे वैकुण्ठे
नास्त्ययं रसः ।
अतः पिबन्तु सद्भाग्या मा मा
मुञ्चत कर्हिचित् ॥ ८३ ॥
सूत उवाच -
(इंद्रवंशा)
एवं ब्रुवाणे सति बादरायणौ
मध्ये सभायां हरिराविरासीत् ।
प्रह्रादबल्युद्धवफाल्गुनादिभिः
वृत्तं सुरर्षिस्तमपूजयच्च तान् ॥ ८४ ॥
दृष्ट्वा प्रसन्नं महदासने हरिं
ते चक्रिरे कीर्तनमग्रतस्तदा ।
भवो भवान्या कमलासनस्तु
तत्रागमत् कीर्तनदर्शनाय ॥ ८५ ॥
(स्रग्धरा)
प्रह्रादस्तालधारी तरलगतितया
चोद्धवः कांस्यधारी
वीणाधारी सुरर्षि स्वरकुशलतया रागकर्तार्जुनोऽभूत्
।
इन्द्रोऽवादीन्मृदङ्गं जय जय
सुकराः कीर्तने ते कुमारा
यत्राग्रे भववक्ता सरसरचनया व्यासपुत्रो
बभूव ॥ ८६ ॥
(उपेंद्रवज्रा)
ननर्त मध्ये त्रिकमेव तत्र
भक्त्यादिकानां नटवत्सुतेजसाम् ।
अलौलिकं कीर्तनमेतदीक्ष्य
हरिः प्रसन्नोऽपि वचोऽब्रवीत् तत् ॥ ८७ ॥
(इंद्रवज्रा)
मत्तो वरं भाववृताद्वृणुध्वं
प्रीतः कथाकीर्तनतोऽस्मि साम्प्रतम् ।
श्रुत्वेति तद्वाक्यमतिप्रसन्नाः
प्रेमार्द्रचित्ता हरिमूचिरे ते ॥ ८८ ॥
(उपेंद्रवज्रा)
नगाहगाथासु च सर्वभक्तैः
एभिस्त्वया भाव्यमिति प्रयत्नात् ।
मनोरथोऽयं परिपूरनीयः
तथेति चोक्त्वान्तरधीयताच्युतः ॥ ८९ ॥
(वंशस्थ)
ततोऽनमत्तत् चरणेषु नारदः
तथा शुकादीनपि तापसांश्च ।
अथ प्रहृष्टाः परिनष्टमोहाः
सर्व ययुः पीतकथामृतास्ते ॥ ९० ॥
(इंद्रवज्रा)
भक्तिः सुताभ्यां सह रक्षिता सा
शास्त्रे स्वकीयेऽपि तदा शुकेन ।
अतो हरिर्भागवतस्य सेवनात्
चित्तं समायाति हि वैष्णवानाम् ॥ ९१ ॥
दारिद्र्यदुःखज्वरदाहितानां
मायापिशाचीपरिमर्दितानाम्
संसारसिन्धौ परिपातितानां
क्षेमाय वै भागवतं प्रगर्जति ॥ ९२ ॥
शौनक उवाच -
(अनुष्टुप्)
शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा
पुनः ।
सुरर्षये कदा ब्राह्मैः छिन्धि मे
संशयं त्विमम् ॥ ९३ ॥
सूत उवाच -
आकृष्णनिर्गमात् त्रिंशत्
वर्षाधिकगते कलौ ।
नवमीतो नभस्ये च कथारंभं शुकोऽकरोत्
॥ ९४ ॥
परीक्षित् श्रवणान्ते च कलौ
वर्षशतद्वये ।
शुद्धे शुचौ नवम्यां च
धेनुजोऽकथयत्कथाम् ॥ ९५ ॥
तस्मादपि कलौ प्राप्ते त्रिंशत्
वर्षगते सति ।
ऊचुरूर्जे सिते पक्षे नवम्यां
ब्रह्मणः सुताः ॥ ९६ ॥
इत्येत्तते समाख्यातं यत्पृष्टोऽहं
त्वयानघ ।
कलौ भागवती वार्ता भवरोगविनाशिनी ॥
९७ ॥
(वसंततिलका)
कृष्णप्रियं सकलकल्मषनाशनं च
मुक्त्येकहेतुमिह भक्तिविलासकारि
सन्तः कथानकमिदं पिबतादरेण
लोके हि तीर्थपरिशीलनसेवया किम् ॥ ९८ ॥
(अपरवक्त्र)
स्वपुरुषमपि वीक्ष्य पाशहस्तं
वदति यमः किल तस्य कर्णमूले ।
परिहर भगवत्कथासु मत्तान्
प्रभुरहमन्युनृणां न वैष्णवानाम् ॥ ९९ ॥
(शिखरिणी)
असारे संसारे विषयविषसङ्गाकुलधियः
क्षणार्धं क्षेमार्थं पिबत शुकगाथातुलसुधाम्
।
किमर्थं व्यर्थं भो व्रजथ कुपथे
कुत्सितकथे
परीक्षित्साक्षी यत्
श्रवणगतमुक्त्युक्तिकथने ॥ १०० ॥
(अनुष्टुप्)
रसप्रवाहसंस्थेन श्रीशुकेनेरिता कथा
।
कण्ठे संबध्यते येन स
वैकुण्ठप्रभुर्भवेत् ॥ १०१ ॥
(मालिनी)
इति च परमगुह्यं
सर्वसिद्धान्तसिद्धं
सपदि निगदितं ते शास्त्रपुञ्जं विलोक्य ।
जगति शुककथातो निर्मलं नास्ति
किञ्चित्
पिब परसुखहेतोर्द्वादशस्कन्धसारम् ॥ १०२ ॥
(प्रहर्षिणी)
एतां यो नियततया श्रृणोति भक्त्या
यश्चैनां कथयति शुद्धवैष्णवाग्रे ।
तौ सम्यक् विधिकरणात्फलं लभेते
याथार्थ्यान्न हि भुवने किमप्यसाध्यम् ॥ १०३
॥
इति श्रीपद्मपुराणे उत्तरखण्डे
श्रीमद्भागवतमाहात्म्ये
श्रवणविधिकथनं नाम षष्टोऽध्यायः ॥ ६
॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु
॥
श्रीमद्भागवतमाहात्म्यम् –
अध्याय ६ भावार्थ
श्रीसनकादि कहते हैं — नारदजी ! अब हम आपको सप्ताहश्रवण की विधि बताते हैं । यह विधि प्रायः लोगों की सहायता और धन से साध्य कही गयी है ॥ १ ॥ पहले तो यत्नपूर्वक ज्योतिषी को बुलाकर मुहूर्त पूछना चाहिये तथा विवाह के लिये जिस प्रकार धन का प्रबन्ध किया जाता है उस प्रकार ही धन की व्यवस्था इसके लिये करनी चाहिये ।। २ ॥ कथा आरम्भ करने में भाद्रपद, आश्विन, कार्तिक, मार्गशीर्ष, आषाढ़ और श्रावण- — छः महीने श्रोताओं के लिये मोक्ष की प्राप्ति के कारण हैं ॥ ३ ॥देवर्षे ! इन महीनों में भी भद्रा-व्यतीपात आदि कुयोग को सर्वथा त्याग देना चाहिये तथा दूसरे लोग जो उत्साही हों, उन्हें अपना सहायक बना लेना चाहिये ॥ ४ ॥ फिर प्रयत्न करके देश-देशान्तरों में यह संवाद भेजना चाहिये कि यहाँ कथा होगी, सब लोगों को सपरिवार पधारना चाहिये ।। ५।। स्त्री और शूद्रादि भगवत्कथा एवं संकीर्तन से दूर पड़ गये हैं । उनको भी सूचना हो जाय, ऐसा प्रबन्ध करना चाहिये ।। ६ ।। देश-देश में जो विरक्त वैष्णव और हरिकीर्तन के प्रेमी हों, उनके पास निमन्त्रणपत्र अवश्य भेजे । उसे लिखने की विधि इस प्रकार बतायी गयी है ।। ७ ।। ‘महानुभावो ! यहाँ सात दिनतक सत्पुरुषों का बड़ा दुर्लभ समागम रहेगा और अपूर्व रसमयी श्रीमद्भागवत की कथा होगी ।। ८ ।। आपलोग भगवद्गस के रसिक हैं, अतः श्रीभागवतामृत का पान करने के लिये प्रेमपूर्वक शीघ्र ही पधारने की कृपा करें ॥ ९ ॥ यदि आपको विशेष अवकाश न हो, तो भी एक दिन के लिये तो अवश्य ही कृपा करनी चाहिये । क्योंकि यहाँ का तो एक क्षण भी अत्यन्त दुर्लभ है ।’ ॥ १० ।। इस प्रकार विनयपूर्वक उन्हें निमन्त्रित करे और जो लोग आयें, उनके लिये यथोचित निवासस्थान का प्रबध करे ॥ ११ ॥ कथा का श्रवण किसी तीर्थ में, वन में अथवा अपने घर पर भी अच्छा माना गया है । जहाँ लम्बा-चौड़ा मैदान हो, वहीं कथास्थल रखना चाहिये ।। १२ ॥ भूमि का शोधन, मार्जन और लेपन करके रंग-बिरंगी धातुओं से चौक पूरे । घर की सारी सामग्री उठाकर एक कोने में रख दे ॥ १३ ॥ पाँच दिन पहले से ही यत्नपूर्वक बहुत-से बिछाने के वस्त्र एकत्र कर ले तथा केले के खम्भों से सुशोभित एक ऊँचा मण्डप तैयार कराये ॥ १४ ॥ उसे सब ओर फल, पुष्प, पत्र और चॅदोवे से अलंकृत करे तथा चारों ओर झंड़ियाँ लगाकर तरह-तरह के सामानों से सजा दे ॥ १५ ॥ उस मण्डप में कुछ ऊँचाई पर सात विशाल लोकों की कल्पना करे और उनमें विरक्त ब्राह्मणों को बुला-बुलाकर बैठाये ॥ १६ ॥ आगे की ओर उनके लिये वहाँ यथोचित आसन तैयार रखे । इनके पीछे वक्ता के लिये भी एक दिव्य सिंहासन का प्रबन्ध करे ॥ १७ ॥ यदि वक्ता का मुख उत्तर की ओर रहे, तो श्रोता पूर्वाभिमुख होकर बैठे और यदि वक्ता पूर्वाभिमुख रहे तो श्रोता को उत्तर की ओर मुख करके बैठना चाहिये ।। १८ ।। अथवा वक्ता और श्रोता को पूर्वमुख होकर बैठना चाहिये । देश-काल आदि को जाननेवाले महानुभावों ने श्रोता के लिये ऐसा ही नियम बताया है ॥ १९ ॥ जो वेद-शास्त्र की स्पष्ट व्याख्या करने में समर्थ हो, तरह-तरह के दृष्टान्त दे सकता हो तथा विवेकी और अत्यन्त निःस्पृह हो, ऐसे विरक्त और विष्णुभक्त ब्राह्मण को वक्ता बनाना चाहिये ।। २० ॥ श्रीमद्भागवत के प्रवचन में ऐसे लोगों को नियुक्त नहीं करना चाहिये जो पण्डित होनेपर भी अनेक धर्मों के चक्कर में पड़े हुए, स्त्री-लम्पट एवं पाखण्ड के प्रचारक हों ॥ २१ ।। वक्ता के पास ही उसकी सहायता के लिये एक वैसा ही विद्वान् और स्थापित करना चाहिये । वह भी सब प्रकार के संशयों की निवृति करने में समर्थ और लोगों को समझाने में कुशल हो ।। २२ ॥ कथा-प्रारम्भ के दिन से एक दिन पूर्व व्रत ग्रहण करने के लिये वक्ता को क्षौर करा लेना चाहिये तथा अरुणोदय के समय शौच से निवृत्त होकर अच्छी तरह स्नान करे ॥ २३ ॥ और संध्यादि अपने नित्यकर्मों को संक्षेप से समाप्त करके कथा के विघ्नों की निवृत्ति के लिये गणेशजी का पूजन करे ॥ २४ ॥ तदनन्तर पितृगण का तर्पण कर पूर्व पापों की शुद्धि के लिये प्रायश्चित्त करे और एक मण्डल बनाकर उसमें श्रीहरि को स्थापित करे ।। २५ ॥ फिर भगवान् श्रीकृष्ण को लक्ष्य करके मन्त्रोच्चारण-पूर्वक क्रमशः षोडशोपचारविधि से पूजन करे और उसके पश्चात् प्रदक्षिणा तथा नमस्कारादि कर इस प्रकार स्तुति करे —।। २६ ॥ ‘करुणानिधान ! मैं संसार-सागर में डूबा हुआ और बड़ा दीन हूँ। कर्मों के मोहरूपी ग्राह ने मुझे फ्कड़ रखा है । आप इस संसार-सागर से मेरा उद्धार कीजिये ॥ २७॥ इसके पश्चात् धूप-दीप आदि सामग्रियों से श्रीमद्भागवत की भी बड़े उत्साह और प्रीतिपूर्वक विधि-विधान से पूजा करे ।। २८ ॥ फिर पुस्तक के आगे नारियल रखकर नमस्कार से और प्रसन्नचित से इस प्रकार स्तुति करे — ॥ २९ ।। ‘श्रीमद्भागवत के रूप में आप साक्षात् श्रीकृष्णचन्द्र ही विराजमान हैं । नाथ ! मैंने भवसागर से छुटकारा पाने के लिये आपकी शरण ली है ॥ ३० ।। मेरा यह मनोरथ आप बिना किसी विघ्न-बाधा के साङ्गोपाङ्ग पूरा करें । केशव ! मैं आपका दास हूँ ॥ ३१ ।। इस प्रकार दीन वचन कहकर फिर वक्ता का पूजन करे । उसे सुन्दर वस्त्राभूषणों से विभूषित करे और फिर पूजा के पश्चात् उसकी इस प्रकार स्तुति करे — ॥ ३२ ॥ ‘शुकस्वरूप भगवन् ! आप समझाने की कला में कुशल और सब शास्त्रों में पारंगत है, कृपया इस कथा को प्रकाशित करके मेरा अज्ञान दूर करें ॥ ३३ ॥ फिर अपने कल्याण के लिये प्रसन्नतापूर्वक उसके सामने नियम ग्रहण करे और सात दिनों तक यथाशक्ति उसका पालन को ॥ ३४ ॥ कथा में विघ्न न हो, इसके लिये पाँच ब्राह्मणों का और वरण करे, वे द्वादशाक्षर मन्त्र द्वारा भगवान् के नामों का जप करें ॥ ३५॥ फिर ब्राह्मण, अन्य विष्णुभक्त एवं कीर्तन करनेवालों को नमस्कार करके उनकी पूजा करे और उनकी आज्ञा पाकर स्वयं भी आसन पर बैठ जाय ॥ ३६॥ जो पुरुष लोक, सम्पत्ति, घन, घर और पुत्रादि की चिन्ता छोड़कर शुद्धचित्त से केवल कथा में ही ध्यान रखता है, उसे इसके श्रवण का उत्तम फल मिलता है ।। ३७ ॥ बुद्धिमान् वक्ता को चाहिये कि सूर्योदय से कथा आरम्भ करके साढ़े तीन प्रहर तक मध्यम स्वर से अच्छी तरह कथा बाँचे ॥ ३८ ॥ दोपहर के समय दो घड़ीं तक कथा बंद रखे । उस समय कथा प्रसङ्ग के अनुसार वैष्णवों को भगवान् के गुणों का कीर्तन करना चाहिये-व्यर्थ बातें नहीं करनी चाहिये ।। ३९ ।। कथा के समय मल-मूत्र के वेग को काबू में रखने के लिये अल्पाहार सुखकारी होता है । इसलिये श्रोता केवल एक ही समय हविष्यान्न भोजन करे ॥ ४० ॥ यदि शक्ति हो तो सातों दिन निराहार रहकर कथा सुने अथवा केवल घी या दूध पीकर सुखपूर्वक श्रवण करे ॥ ४१ ।। अथवा फलाहार या एक समय ही भोजन करे । जिससे जैसा नियम सुभीत से सध सके, उसी को कथाश्रवण के लिये ग्रहण करे ॥ ४२ ॥ मैं तो उपवास की अपेक्षा भोजन करना अच्छा समझता हूँ, यदि वह कथाश्रवण में सहायक हो । यदि उपवास से श्रवण में बाधा पहुँचती हो तो वह किसी कामका नहीं ॥ ४३ ॥ नारदजी ! नियम से सप्ताह सुननेवाले पुरुषों के नियम सुनिये । विष्णुभक्त की दीक्षा से रहित पुरुष कथाश्रवण का अधिकारी नहीं है ।। ४४ ॥ जो पुरुष नियम से कथा सुने, उसे ब्रह्मचर्य से रहना, भूमि पर सोना और नित्यप्रति कथा समाप्त होने पर पत्तल में भोजन करना चाहिये ।। ४५ ॥ दाल, मधु, तेल, गरिष्ठ अन्न, भावदूषित पदार्थ और बासी अन्न — इनका उसे सर्वदा ही त्याग करना चाहिये ॥ ४६ ॥ काम, क्रोध, मद, मान, मत्सर, लोभ, दम्भ, मोह और द्वेष को तो अपने पास भी नहीं फटकने देना चाहिये ॥ ४७ ॥ वह वेद, वैष्णव, ब्राह्मण, गुरु, गोसेवक तथा स्त्री, राजा और महापुरुषों की निन्दा से भी बचे ॥ ४८ ।। नियम से कथा सुननेवाले पुरुष को रजस्वला स्त्री, अन्त्यज, म्लेच्छ, पतित, गायत्रीहीन द्विज, ब्राह्मणों से द्वेष करनेवाले तथा वेद को न माननेवाले पुरुषों से बात नहीं करनी चाहिये ॥ ४९ ।। सर्वदा सत्य, शौच, दया, मौन, सरलता, विनय और उदारता का बर्ताव करना चाहिये ॥ ५० ।। धनहीन, क्षयरोगी, किसी अन्य रोग से पीड़ित, भाग्यहीन, पापी, पुत्रहीन और मुमुक्षु भी यह कथा श्रवण करे ।। ५१ ।। जिस स्त्री का रजोदर्शन रुक गया हो, जिसके एक ही संतान होकर रह गयी हो, जो बाँझ हो, जिसकी संतान होकर मर जाती हो अथवा जिसका गर्भ गिर जाता हो, वह यत्नपूर्वक इस कथा को सुने ।। ५२ ।। ये सब यदि विधिवत् कथा सुने तो इन्हें अक्षय फल की प्राप्ति हो सकती है । यह अत्युत्तम दिव्य कथा करोड़ों यज्ञों का फल देनेवाली है ॥ ५३ ॥ इस प्रकार इस व्रत की विधियों का पालन करके फिर उद्यापन करे । जिन्हें इसके विशेष फल की इच्छा हो, वे जन्माष्टमी-व्रत के समान ही इस कथाव्रत का उद्यापन करें ।। ५४ ।। किन्तु जो भगवान् के अकिञ्चन भक्त हैं, उनके लिये उद्यापन का कोई आग्रह नहीं है । वे श्रवण से ही पवित्र हैं, क्योंकि वे तो निष्काम भगवद्भक्त इस प्रकार जब सप्ताहयज्ञ समाप्त हो जाय, तब श्रोताओं को अत्यन्त भक्तिपूर्वक पुस्तक और वक्ता की पूजा करनी चाहिये ।। ५६ ॥ फिर वक्ता श्रोताओं को प्रसाद, तुलसी और प्रसादी मालाएँ दे तथा सब लोग मृदङ्ग और झाँझ की मनोहर ध्वनि से सुन्दर कीर्तन करें ॥ ५५ ॥ जय-जयकार, नमस्कार और शङ्खध्वनि का घोष कराये तथा ब्राह्मण और याचकों को धन और अन्न दे ॥ ५८ ।। श्रोता विरक्त हो तो कर्म की शान्ति के लिये दूसरे दिन गीतापाठ करे; गृहस्थ हो तो हवन करे ।। ५९ ॥ उस हवन में दशमस्कन्ध का एक-एक श्लोक पढ़कर विधिपूर्वक खीर, मधु, घृत, तिल और अन्नादि सामग्रियों से आहुति दे ॥ ६० ।। अथवा एकाग्र चित्त से गायत्री-मन्त्र द्वारा हवन करे; क्योंकि तत्त्वतः यह महापुराण गायत्रीस्वरूप ही हैं ॥ ६१ ॥ होम करने की शक्ति न हो तो उसका फल प्राप्त करने के लिये ब्राह्मणों को हवनसामग्री दान करे तथा नाना प्रकार की त्रुटियों को दूर करने के लिये और विधि में फिर जो न्यूनाधिकता रह गयी हो, उसके दोषों की शान्ति के लिये विष्णुसहस्रनाम का पाठ करे । उससे सभी कर्म सफल हो जाते हैं, क्योंकि कोई भी कर्म इससे बढ़कर नहीं है ॥ ६२-६३ ॥ फिर बारह ब्राह्मणों को खीर और मधु आदि उत्तम-उत्तम पदार्थ खिलाये तथा व्रत की पूर्ति के लिये गौ और सुवर्ण का दान करे ॥ ६४ ।। सामर्थ्य हो तो तीन तोले सोने का एक सिंहासन बनवाये, उसपर सुन्दर अक्षर लिखी हुई श्रीमद्भागवत की पोथी रखकर उसकी आवाहनादि विविध उपचारों से पूजा करे और फिर जितेन्द्रिय आचार्य को उसका वस्त्र, आभूषण एवं गन्धादि से पूजनकर – दक्षिणा के सहित समर्पण कर दे ॥ ६५-६६ ॥ यों करने से वह बुद्धिमान् दाता जन्म-मरण के बन्धनों से मुक्त हो जाता है । यह सप्ताहपारायण की विधि सब पापों की निवृत्ति करनेवाली है । इसका इस प्रकार ठीक-ठीक पालन करने से यह मङ्गलमय भागवतपुराण अभीष्ट फल प्रदान करता है तथा अर्थ, धर्म, काम और मोक्ष-चारों की प्राप्ति का साधन हो जाता है — इसमें सन्देह नहीं ॥ ६७-६८ ॥ सनकादि कहते हैं — नारदजी ! इस प्रकार तुम्हें यह सप्ताहश्रवण की विधि हमने पूरी-पूरी सुना दी, अब और क्या सुनना चाहते हो ? इस श्रीमद्भागवत से भोग और मोक्ष दोनों ही हाथ लग जाते हैं ।। ६९ ॥ सूतजी कहते हैं — शौनकजी ! यों कहकर महामुनि सनकादि ने एक सप्ताहतक विधिपूर्वक इस सर्वपापनाशिनी, परम पवित्र तथा भोग और मोक्ष प्रदान करनेवाली भागवतकथा का प्रवचन किया । सब प्राणियों ने नियमपूर्वक इसे श्रवण किया । इसके पश्चात् उन्होंने विधिपूर्वक भगवान् पुरुषोत्तम स्तुति की ।। ७०-७१ ॥ कथा के अन्त में ज्ञान-वैराग्य और भक्ति को बड़ी पुष्टि मिली और वे तीनों एकदम तरुण होकर सब जीवों का चित अपनी ओर आकर्षित करने लगे ।। ७२ ॥ अफ्ना मनोरथ | पूरा होने से नारदजी को भी बड़ी प्रसन्नता हुई, उनके सारे शरीर में रोमाञ्च हो आया और वे परमानन्द से पूर्ण हो गये ॥ ७३ ।। इस प्रकार कथा श्रवण कर भगवान् के प्यारे नारदजी हाथ जोड़कर प्रेमगद्गद वाणी से सनकादि से कहने लगे ॥ ४ ॥ नारदजी ने कहा — मैं धन्य हूँ. आपलोगों ने करुणा करके मुझे बड़ा ही अनुगृहीत किया है, आज मुझे सर्वपापहारी भगवान् श्रीहरि की ही प्राप्ति हो गयी ।। ७५ ॥ तपोधनो ! मैं श्रीमद्भागवतश्रवण को ही सर्व धर्मों से श्रेष्ठ मानता हूँ, क्योंकि इसके श्रवण से वैकुण्ठ ( गोलोक)विहारी श्रीकृष्ण की प्राप्ति होती है ॥ ७६ ।। सूतजी कहते हैं — शौनकजी ! वैष्णवश्रेष्ठ नारदजी यों कह ही रहे थे कि वहाँ घूमते-फिरते योगेश्वर शुकदेवजी आ गये ।। ७७ ।। कथा समाप्त होते ही व्यासनन्दन श्रीशुकदेवजी वहाँ पधारे । सोलह वर्ष की-सी आयु, आत्मलाभ से पूर्ण, ज्ञानरूपी महासागर का संवर्धन करने के लिये चन्द्रमा के समान वे प्रेम से धीरे-धीरे श्रीमद्भागवत का पाठ कर रहे थे ॥ ८ ॥ परम तेजस्वी शुकदेवजी को देखकर सारे सभासद् झटपट खड़े हो गये और उन्हें एक ऊँचे आसन पर बैठाया । फिर देवर्षि नारदजी ने उनका प्रेमपूर्वक पूजन किया । उन्होंने सुखपूर्वक बैठकर कहा-‘आपलोग मेरी निर्मल वाणी सुनिये’ ।। ७९ ॥ श्रीशुकदेवजी बोले — रसिक एवं भावुक जन ! यह श्रीमद्भागवत वेदरूप कल्पवृक्ष का परिपक्व फल है । श्रीशुकदेवरूप शुक के मुख का संयोग होने से अमृतरस से परिपूर्ण है । यह रस-ही-रस है इसमें न छिलका हैं न, गुठली । यह इसी लोक में सुलभ है । जबतक शरीर | चेतना रहे, तबतक आपलोग बार-बार इसका पान करें ॥ ८० || महामुनि व्यासदेव ने श्रीमद्भागवत महापुराण की रचना की है । इसमें निष्कपट–निष्काम परमधर्म का निरूपण है । इसमें शुद्धान्तःकरण सत्पुरुषों के जानने योग्य कल्याणकारी वास्तविक वस्तु का वर्णन है, जिससे तीनों तापों की शान्ति होती है । इसका आश्रय लेनेपर दूसरे शास्त्र अथवा साधन की आवश्यकता नहीं रहती । जब कभी पुण्यात्मा पुरुष इसके श्रवण की इच्छा करते हैं, तभी ईश्वर अविलम्ब उनके हृदय में अवरुद्ध हो जाता है ।। ८१ ॥ यह भागवत पुराणों का तिलक और वैष्णवो का धन है । इसमें परमहंसों को प्राप्य विशुद्ध ज्ञान का ही वर्णन किया गया है तथा ज्ञान, वैराग्य और भक्ति के सहित निवृत्तिमार्ग को प्रकाशित किया गया है । जो पुरुष भक्तिपूर्वक इसके श्रवण, पठन और मनन में तत्पर रहता है, वह मुक्त हो जाता है ।। ८२ ॥ यह रस स्वर्गलोक, सत्यलोक, कैलास और वैकुण्ठ में भी नहीं हैं । इसलिये भाग्यवान् श्रोताओ ! तुम इसका खूब पान करो; इसे कभी मत छोडो, मत छोड़ो ।। ८३ ॥ सूतजी कहते हैं — श्रीशुकदेवजी इस प्रकार कह ही रहे थे कि उस सभा के बीचोबीच प्रह्लाद, बलि, उद्धव, और अर्जुन आदि पार्षदों सहित साक्षात् श्रीहरि प्रकट हो गये । तब देवर्षि नारद ने भगवान् और उनके भक्तों की यथोचित पूजा की ।। ८४ ॥ भगवान् को प्रसन्न देखकर देवर्षि ने उन्हें एक विशाल सिंहासनपर बैठा दिया और सब लोग उनके सामने संकीर्तन करने लगे । उस कीर्तन को देखने के लिये श्रीपार्वतीजी सहित महादेवजी और ब्रह्माजी भी आये ।। ८५ ।। कीर्तन आरम्भ हुआ । प्रह्लादजी तो चञ्चलगति (फुर्तीले) होनेके कारण करताल बजाने लगे, उद्धवजी ने झाँझ उठा लीं, देवर्षि नारद वीणा की ध्वनि करने लगे, स्वर-विज्ञान (गान-विद्या) में कुशल होने के कारण अर्जुन राग अलापने लगे, इन्द्र ने मृदङ्ग बजाना आरम्भ किया, सनकादि बीच-बीच में जयघोष करने लगे और इन सबके आगे शुकदेवजी तरह-तरह की सरस अङ्ग-भङ्गी करके भाव बताने लगे ॥ ८६ ।। इन सबके बीच में परम तेजस्वी भक्ति, ज्ञान और वैराग्य नटों के समान नाचने लगे । ऐसा अलौकिक कीर्तन देखकर भगवान् प्रसन्न हो गये और इस प्रकार कहने लगे — ॥ ८७ ॥ ‘मैं तुम्हारी इस कथा और कीर्तन से बहुत प्रसन्न हूँ, तुम्हारे भक्तिभाव ने इस समय मुझे अपने वश में कर लिया है । अतः तुमलोग मुझसे वर माँगो’ । भगवान् के ये वचन सुनकर सब लोग बड़े प्रसन्न हुए और प्रेमाई चित्त से भगवान से कहने लगे— ॥ ८८ ॥ ‘भगवन् ! हमारी यह अभिलाषा है कि भविष्य में भी जहाँ-कहीं सप्ताह-कथा हो, वहाँ आप इन पार्षदों के सहित अवश्य पधारें । हमारा यह मनोरथ पूर्ण कर दीजिये’ । भगवान् ‘तथास्तु’ कहकर अन्तर्धान हो गये ॥ ८९ ॥ इसके पश्चात् नारदजी ने भगवान् तथा उनके पार्षदों के चरणों को लक्ष्य करके प्रणाम किया और फिर शुकदेवजी आदि तपस्वियों को भी नमस्कार किया । कथामृत का पान करने से सब लोगों को बड़ा ही आनन्द हुआ, उनका सारा मोह नष्ट हो गया । फिर वे सब लोग अपने-अपने स्थान को चले गये ॥ ९० ॥ उस समय शुकदेवजी ने भक्ति को उसके पुत्रोंसहित अपने शास्त्र में स्थापित कर दिया । इसी से भागवत का सेवन करने से श्रीहरि वैष्णवों के हृदय में आ विराजते हैं ॥ ९१ ।। जो लोग दरिद्रता के दुःखज्वर की ज्वाला से दग्ध हो रहे हैं, जिन्हें माया-पिशाची ने रौंद डाला हैं तथा जो संसार-समुद्र में डूब रहे हैं, उनका कल्याण करने के लिये श्रीमद्भागवत सिंहनाद कर रहा है ॥ १२ ॥ शौनकजी ने पूछा — सूतजी ! शुकदेवजी ने राजा परीक्षित को, गोकर्ण ने धुन्धुकारी को और सनकादि ने नारदजी को किस-किस समय यह ग्रन्थ सुनाया था—मेरा यह संशय दूर कीजिये ! ॥ २३ ॥ सूतजीने कहा — भगवान् श्रीकृष्ण के स्वधामगमन के बाद कलियुग के तीस वर्ष से कुछ अधिक बीत जाने पर भाद्रपद मास की शुक्ला नवमी को शुकदेवजी ने कथा आरम्भ की थी ।। ९४ ॥ राजा परीक्षित् के कथा सुनने के बाद कलियुग के दो सौ वर्ष बीत जानेपर आषाढ़ मास की शुक्ला नवमी को गोकर्णजी ने यह कथा सुनाई थी ।। ९५ ॥ इसके पीछे कलियुग के तीस वर्ष और निकल जाने पर कार्तिक शुक्ला नवमी से सनकादि ने कथा आरम्भ की थीं ।। ९६ ।। निष्पाप शौनकजी ! आपने जो कुछ पूछा था, उसका उत्तर मैंने आपको दे दिया । इस कलियुग में भागवत की कथा भवरोगी रामबाण औषध है ॥ ९७ ।। संतजन ! आपलोग आदरपूर्वक इस कथामृत का पान कीजिये । यह श्रीकृष्ण को अत्यन्त प्रिय, सम्पूर्ण पापों का नाश करनेवाला, मुक्ति का एकमात्र कारण और भक्ति को बढ़ानेवाला है । लोक में अन्य कल्याणकारी साधनों का विचार करने और तीर्थों का सेवन करने से क्या होगा ।। ९८ ॥ अपने दूत को हाथ में पाश लिये देखकर यमराज उसके कान में कहते हैं — ‘देखो, जो भगवान् की कथावार्ता में मत्त हो रहे हों, उनसे दूर रहना; मैं औरों को ही दण्ड देने की शक्ति रखता हूँ, वैष्णवों को नहीं” ।। ९९ ॥ इस असार संसार में विषयरूप विष की आसक्ति के कारण व्याकुल बुद्धिवाले पुरुषो ! अपने कल्याण के उद्देश्य से आधे क्षण के लिये भी इस शुककथारूप अनुपम सुधा का पान करो । प्यारे भाइयो ! निन्दित कथाओं से युक्त कुपथ में व्यर्थ ही क्यों भटक रहे हो ? इस कथा के कान में प्रवेश करते ही मुक्ति हो जाती है, इस बात के साक्षी राजा परीक्षित् है ॥ १०० ॥ श्रीशुकदेवजी ने प्रेमरस के प्रवाह में स्थित होकर इस कथा को कहा था । इसका जिसके कण्ठ से सम्बन्ध हो जाता है, वह वैकुण्ठ का स्वामी बन जाता है ।। १०१ ॥ शौनकजी ! मैंने अनेक शास्त्रों को देखकर आपको यह परम गोप्य रहस्य अभी-अभी सुनाया है । सब शास्त्रो के सिद्धान्त का यही निचोड़ हैं । संसार में इस शुकशास्त्र से अधिक पवित्र और कोई वस्तु नहीं है; अतः आपलोग परमानन्द की प्राप्ति के लिये इस द्वादशस्कन्धरूप रस का पान करें ।। १०२ ।। जो पुरुष नियमपूर्वक इस कथा को भक्ति-भाव से श्रवण करता है, और जो शुद्धान्तःकरण भगवद्भक्त के सामने इसे सुनाता है, वे दोनों ही विधि का पूरा-पूरा पालन करने के कारण इसका यथार्थ फल पाते हैं उनके लिये त्रिलोकी में कुछ भी असाध्य नहीं रह जाता ।। १०३ ॥
॥ श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये श्रवणविधिकथनं नाम षष्ठोऽध्यायः ॥
॥ हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
No comments:
Post a Comment
Please do not enter any spam link in the comment box