श्रीमद्भागवतमाहात्म्यम् –
अध्याय १
श्रीमद्भागवत माहात्म्यम् –
अध्याय १ श्रीपद्मपुराण
श्रीमद्भागवतपुराणम्/माहात्म्य
(पाद्मे)/अध्यायः ०१
श्रीमद्भागवतमाहात्म्यम् - प्रथमोऽध्यायः
ॐ गणेशाय नमः
ॐ नमो
भगवते वासुदेवाय
श्रीमद्भागवतमाहात्म्य प्रारम्भ
(अनुष्टुप्)
सच्चिदानन्दरूपाय
विश्वोत्पत्त्यादिहेतवे ।
तापत्रयविनाशाय श्रीकृष्णाय वयं
नुमः ॥ १ ॥
(वसंततिलका)
यं प्रव्रजन्तमनुपेत्यमपेतकृत्यं
द्वैपायनो विरहकातर आजुहाव ।
पुत्रेति तन्मयतया तरवोऽभिनेदुः
तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥
(अनुष्टुप्)
नैमिषे सूतं आसीनं अभिवाद्य
महामतिम् ।
कथामृत रसास्वाद कुशलः
शौनकोऽब्रवीत् ॥ ३ ॥
शौनक उवाच -
अज्ञानध्वान्तविध्वंस
कोटिसूर्यसमप्रभ ।
सूताख्याहि कथासारं मम कर्णरसायनम्
॥ ४ ॥
भक्तिज्ञानविरागाप्तो विवेको वर्धते
महान् ।
मायामोहनिरासश्च वैष्णवैः क्रियते
कथम् ॥ ५ ॥
इह घोरे कलौ प्रायो जीवश्चासुरतां
गतः ।
क्लेशाक्रान्तस्य तस्यैव शोधने किं
परायणम् ॥ ६ ॥
श्रेयसां यद् भवेत् श्रेयः पावनानां
च पावनम् ।
कृष्णप्राप्तिकरं शश्वत् साधनं तद्वदाधुना
॥ ७ ॥
चिन्तामणिर्लोकसुखं सुरद्रुः
स्वर्गसंपदम् ।
प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम्
॥ ८ ॥
सूत उवाच -
प्रीतिः शौनक चित्ते ते ह्यतो वच्मि
विचार्य च ।
सर्वसिद्धान्त निष्पन्नं
संसरभयनाशनम् ॥ ९ ॥
भक्त्योघवर्धनं यच्च
कृष्णसंतोषहेतुकम् ।
तदहं तेऽभिधास्यामि सावधानतया
श्रृणु ॥ १० ॥
कालव्यालमुखाग्रास
त्रासनिर्णाशहेतवे ।
श्रीमद्भागवतं शास्त्रं कलौ कीरेण
भाषितम् ॥ ११ ॥
एतस्माद् अपरं किंचिद् मनःशुद्ध्यै
न विद्यते ।
जन्मान्तरे भवेत् पुण्यं तदा भागवतं
लभेत् ॥ १२ ॥
परीक्षिते कथां वक्तुं सभायां
संस्थिते शुके ।
सुधाकुंभं गृहीत्वैव देवास्तत्र
समागमन् ॥ १३ ॥
शुकं नत्वावदन् सर्वे
स्वकार्यकुशलाः सुराः ।
कथासुधां प्रयच्छस्व गृहीत्वैव
सुधां इमाम् ॥ १४ ॥
एवं विनिमये जाते सुधा राज्ञा
प्रपीयताम् ।
प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम्
॥ १५ ॥
क्व सुधा क्व कथा लोके क्व काचः क्व
मणिर्महान् ।
ब्रह्मरातो विचार्यैवं तदा
देवाञ्जहास ह ॥ १६ ॥
अभक्तान् तांश्च विज्ञाय न ददौ स
कथामृतम् ।
श्रीमद्भागवती वार्ता सुराणां अपि
दुर्लभा ॥ १७ ॥
राज्ञो मोक्षं तथा वीक्ष्य पुरा
धातापि विस्मितः ।
सत्यलोक तुलां बद्ध्वा तोलयत्
साधनान्यजः ॥ १८ ॥
लघून्यन्यानि जातानि गौरवेण इदं
महत् ।
तदा ऋषिगणाः सर्वे विस्मयं परमं
ययुः ॥ १९ ॥
मेनिरे भगवद्रूपं शास्त्रं भागवतं
कलौ ।
पठनात् श्रवणात् सद्यो
वैकुण्ठफलदायकम् ॥ २० ॥
सप्ताहेन श्रुतं चैतत् सर्वथा
मुक्तिदायकम् ।
सनकाद्यैः पुरा प्रोक्तं नारदाय
दयापरैः ॥ २१ ॥
यद्यपि ब्रह्मसंबंधात् श्रुतमेतत्
सुरर्षिणा ।
सप्ताहश्रवणविधिः कुमारैस्तस्य
भाषितः ॥ २२ ॥
शौनक उवाच -
लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य
च ।
विधिश्रवे कुतः प्रीतिः संयोगः
कुत्र तैः सह ॥ २३ ॥
सूत उवाच -
अत्र ते कीर्तयिष्यामि भक्तियुक्तं
कथानकम् ।
शुकेन मम यत्प्रोक्तं रहः शिष्यं
विचार्य च ॥ २४ ॥
एकदा हि विशालायां चत्वार ऋषयोऽमलाः
।
सत्सङ्गार्थं समायाता ददृशुस्तत्र
नारदम् ॥ २५ ॥
कुमाराः ऊचुः -
कथं ब्रह्मन् दीनमुखं
कुतश्चिन्तातुरो भवान् ।
त्वरितं गम्यते कुत्र कुतश्चागमनं
तव ॥ २६ ॥
इदानीं शून्यचित्तोऽसि गतवित्तो यथा
जनः ।
तवेदं मुक्तसङ्गस्य नोचितं वद
कारणम् ॥ २७ ॥
नारद उवाच -
अहं तु पृथिवीं यातो ज्ञात्वा
सर्वोत्तममिति ।
पुष्करं च प्रयागं च काशीं गोदावरीं
तथा ॥ २८ ॥
हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्गं
सेतुबन्धनम् ।
एवमादिषु तीर्थेषु भ्रममाण इतस्ततः
॥ २९ ॥
नापश्यं कुत्रचित् शर्म
मनस्संतोषकारकम् ।
कलिनाधर्ममित्रेण धरेयं बाधिताधुना
॥ ३० ॥
सत्यं नास्ति तपः शौचं दया दानं न
विद्यते ।
उदरंभरिणो जीवा वराकाः कूटभाषिणः ॥
३१ ॥
मन्दाः सुमन्दमतयो मन्दभाग्या हि
उपद्रुताः ।
पाखण्डनिरताः संतो विरक्ताः
सपरिग्रहाः ॥ ३२ ॥
तरुणीप्रभुता गेहे श्यालको
बुद्धिदायकः ।
कन्याविक्रयिणो लोभाद् दंपतीनां च
कल्कनम् ॥ ३३ ॥
आश्रमा यवनै रुद्धाः तीर्थानि
सरितस्तथा ।
देवतायतनान्यत्र दुष्टैः नष्टानि
भूरिशः ॥ ३४ ॥
न योगी नैव सिद्धो वा न ज्ञानी
सत्क्रियो नरः ।
कलिदावानलेनाद्य साधनं भस्मतां गतम्
॥ ३५ ॥
अट्टशूला जनपदाः शिवशूला द्विजातयः
।
कामिन्यः केशशूलिन्यः संभवन्ति कलौ
इह ॥ ३६ ॥
एवं पश्यन् कलेर्दोषान् पर्यटन्
अवनीं अहम् ।
यामुनं तटमापन्नो यत्र लीला
हरेरभूत् ॥ ३७ ॥
तत्राश्चर्यं मया दृष्टं श्रूयतां
तन्मुनीश्वराः ।
एका तु तरुणी तत्र निषण्णा
खिन्नमानसा ॥ ३८ ॥
वृद्धौ द्वौ पतितौ पार्श्वे
निःश्वसन्तौ अचेतनौ ।
शुश्रूषन्ती प्रबोधन्ती रुदती च
तयोः पुरः ॥ ३९ ॥
दशदिक्षु निरीक्षन्ती रक्षितारं
निजं वपुः ।
वीज्यमाना शतस्त्रीभिः बोध्यमाना
मुहुर्मुहुः ॥ ४० ॥
दृष्ट्वा दुराद् गतः सोऽहं कौतुकेन
तदन्तिकम् ।
मां दृष्ट्वा चोत्थिता बाला विह्वला
चाब्रवीद् वचः ॥ ४१ ॥
बालोवाच -
भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि
नाशय ।
दर्शनं तव लोकस्य सर्वथाघहरं परम् ॥
४२ ॥
बहुधा तव वाक्येन
दुःखशान्तिर्भविष्यति ।
यदा भाग्यं भवेद् भूरि भवतो दर्शनं
तदा ॥ ४३ ॥
नारद उवाच -
कासि त्वं कौ इमौ चेमा नार्यः काः
पद्मलोचनाः ।
वद देवि सविस्तारं स्वस्य दुःखस्य
कारणम् ॥ ४४ ॥
बालोवाच -
अहं भक्तिरिति ख्याता इमौ मे तनयौ
मतौ ।
ज्ञानवैराग्य नामानौ कालयोगेन
जर्जरौ ॥ ४५ ॥
गङ्गाद्या स्मरितश्चेमा
मत्सेवार्थं समागताः ।
तथापि न च मे श्रेयः सेवितायाः
सुरैरपि ॥ ४६ ॥
इदानीं श्रुणु मद्वार्तां
सचित्तस्त्वं तपोधन ।
वार्ता मे वितताप्यस्ति तां
श्रुत्वा सुखमावह ॥ ४७ ॥
उत्पन्ना द्रविडे साहं वृद्धिं
कर्नाटके गता ।
क्वचित् क्वचित् महाराष्ट्रे
गुर्जरे जीर्णतां गता ॥ ४८ ॥
तत्र घोर कलेर्योगात् पाखण्डैः
खण्डिताङ्गका ।
दुर्बलाहं चिरं याता पुत्राभ्यां सह
मन्दताम् ॥ ४९ ॥
वृन्दावनं पुनः प्राप्य नवीनेव
सुरूपिणी ।
जाताहं उवती सम्यक् श्रेष्ठरूपा तु
सांप्रतम् ॥ ५० ॥
इमौ तु शयितौ अत्र सुतौ मे
क्लिश्यतः श्रमात् ।
इदं स्थानं परित्यज्य विदेशं गम्यते
मया ॥ ५१ ॥
जरठत्वं समायातौ तेन दुःखेन दुःखिता
।
साहं तु तरुणी कस्मात् सुतौ वृद्धौ
इमौ कुतः ॥ ५२ ॥
प्रयाणां सहचारित्वात् वैपरीत्यं
कुतः स्थितम् ।
घटते जरठा माता तरुणौ तनयौ इति ॥ ५३
॥
अतः शोचामि चात्मानं
विस्मयाविष्टमानसा ।
वद योगनिधे धीमन् कारणं चात्र किं
भवेत् ॥ ५४ ॥
नारद उवाच -
ज्ञानेनात्मनि पश्यामि सर्वं एतत्
तवानघे ।
न विषादः त्वया कार्यो हरिः शं ते
करिष्यति ॥ ५५ ॥
सूत उवाच -
क्षणमात्रेण तज्ज्ञात्वा वाक्यं ऊचे
मुनीश्वरः ॥ ५६ ॥
नारद उवाच -
श्रुणुषु अवहिता बाले योगोऽयं
दारुणा कलिः ।
तेन लुप्तः सदाचारो योगमार्गः
तपांसि च ॥ ५७ ॥
जना अघासुरायन्ते
शाठ्यदुष्कर्मकारिणः ।
इह सन्तो विषीदन्ति प्रहृष्यन्ति हि
असाधवः ।
धत्ते धैर्यं तु यो धीमान् स धीरः
पण्डितोऽथवा ॥ ५८ ॥
अस्पृश्यान् अवलोक्येयं शेषभारकरी
धरा ।
वर्षे वर्षे क्रमात् जाता मंगलं
नापि दृश्यते ॥ ५९ ॥
न त्वामपि सुतैः साकं कोऽपि पश्यति
सांप्रतम् ।
उपेक्षितानुरागान्धैः जर्जरत्वेन
संस्थिता ॥ ६० ॥
वृन्दावनस्य संयोगात् पुनस्त्वं
तरुणी नवा ।
धन्यं वृन्दावनं तेन भक्तिः नृत्यति
यत्र च ॥ ६१ ॥
अत्रेमौ ग्राहकाभावात् न जरामपि
मुञ्चतः ।
किञ्चित् आत्मसुखेनेह प्रसुप्तिः
मन्यतेऽनयोः ॥ ६२ ॥
भक्तिरुवाच -
कथं परीक्षिता राज्ञा स्थापितो
ह्यशुचिः कलिः ।
प्रवृत्ते तु कलौ सर्वसारः कुत्र
गतो महान् ॥ ६३ ॥
करुणापरेण हरिणापि अधर्म
कथमीक्ष्यते ।
इमं मे संशयं छिन्धि त्वद्वाचा
सुखितास्म्यहम् ॥ ६४ ॥
नारद उवाच -
यदि पृष्टस्त्वया बाले प्रेमतः
श्रवणं कुरु ।
सर्वं वक्ष्यामि ते भद्रे कश्मलं ते
गमिष्यति ॥ ६५ ॥
यदा मुकुन्दो भगवान् क्ष्मां
त्यक्त्वा स्वपदं गतः ।
तद्दिनात् कलिरायातः सर्वसाधनबाधकः
॥ ६६ ॥
दृष्टो दिग्विजये राज्ञा दीनवत्
शरणं गतः ।
न मया मारणीयोऽयं सारंग इव सरभुक् ॥
६७ ॥
यत्फलं नास्ति तपसा न योगेन समाधिना
।
तत्फलं लभते सम्यक् कलौ
केशवकीर्तनात् ॥ ६८ ॥
एकाकारं कलिं दृष्ट्वा
सारवत्सारनीरसम् ।
विष्णुरातः स्थापितवान् कलिजानां
सुखाय च ॥ ६९ ॥
कुकर्माचरनात्सारः सर्वतो
निर्गतोऽधुना ।
पदार्थाः संस्थिता भूमौ
बीजहीनास्तुषा यथा ॥ ७० ॥
विप्रैर्भागवती वार्ता गेहे गेहे
जने जने ।
कारिता कणलोभेन कथासारस्ततो गतः ॥
७१ ॥
अत्युग्रभूरिकर्माणो नास्तिका रौरवा
जनाः ।
तेऽपि तिष्ठन्ति तीर्थेषु
तीर्थसारस्ततो गतः ॥ ७२ ॥
कामक्रोध महालोभ तृष्णाव्याकुलचेतसः
।
तेऽपि तिष्ठन्ति तपसि तपःसारस्ततो
गतः ॥ ७३ ॥
मनसश्चाजयात् लोभाद् दंभात्
पाखण्डसंश्रयात् ।
शास्त्रान् अभ्यसनाच्चैव
ध्यानयोगफलं गतम् ॥ ७४ ॥
पण्डितास्तु कलत्रेण रमन्ते महिषा
इव ।
पुत्रस्योत्पादने दक्षा अदक्षा
मुक्तिसाधने ॥ ७५ ॥
न हि वैष्णवता कुत्र
संप्रदायपुरःसरा ।
एवं प्रलयतां प्राप्तो वस्तुसारः
स्थले स्थले ॥ ७६ ॥
अयं तु युगधर्मो हि वर्तते कस्य
दूषणम् ।
अतस्तु पुण्डरीकाक्षः सहते निकटे
स्थितः ॥ ७७ ॥
सूत उवाच -
इति तद्वचनं श्रुत्वा विस्मयं परमं
गता ।
भक्तिरूचे वचो भूयः श्रूयतां तच्च
शौनक ॥ ७८ ॥
भक्तिरुवाच -
सुरर्षे त्वं हि धन्योऽसि मद्भाग्येन
समागतः ।
साधूनां दर्शनं लोके सर्वसिद्धिकरं
परम् ॥ ७९ ॥
(मालिनी)
जयति जयति मायां यस्य कायाधवस्ते
वचनरचनमेकं केवलं चाकलय्य ।
ध्रुवपदमपि यातो यत्कृपातो
ध्रुवोऽयं
सकलकुशलपात्रं ब्रह्मपुत्रं नतास्मि ॥ ८० ॥
इति श्रीपद्मपुराणे उत्तरखण्डे
श्रीमद्भागवतमाहात्म्ये
भक्तिनारदसमागमो नाम प्रथमोऽध्यायः ॥ १ ॥
श्रीमद्भागवतमाहात्म्यम् –
अध्याय १ भावार्थ
पहला अध्याय
सच्चिदानन्दस्वरूप भगवान् श्रीकृष्ण
को हम नमस्कार करते हैं, जो जगत् की
उत्पत्ति, स्थिति और विनाश के हेतु तथा आध्यात्मिक, आधिदैविक और आधिभौतिक तीनों प्रकार के तापों का नाश करनेवाले हैं ॥ १ ॥
जिस समय श्रीशुकदेवजी का
यज्ञोपवीत-संस्कार भी नहीं हुआ था तथा लौकिक-वैदिक कर्मों के अनुष्ठान का अवसर भी
नहीं आया था, तभी उन्हें अकेले ही संन्यास
लेने के लिये घर से जाते देखकर उनके पिता व्यासजी विरह से कातर होकर पुकारने लगे —
‘बेटा ! बेटा ! तुम कहाँ जा रहे हो ?’ उस समय
वृक्षों ने तन्मय होने के कारण श्रीशुकदेवजी की ओर से उत्तर दिया था । ऐसे
सर्वभूत-हृदयस्वरूप श्रीशुकदेवमुनि को मैं नमस्कार करता हूँ ॥ २ ॥
एक बार भगवत्कथामृत का रसास्वादन
करने में कुशल मुनिवर शौनकजी ने नैमिषारण्य क्षेत्र में विराजमान महामति सूतजी को
नमस्कार करके उनसे पूछा ॥ ३ ॥
शौनकजी बोले —
सूतजी ! आपका ज्ञान अज्ञानान्धकार को नष्ट करने के लिये करोड़ों
सूर्यों के समान हैं । आप हमारे कानों के लिये रसायन-अमृतस्वरूप सारगर्भित कथा
कहिये ॥ ४॥ भक्ति, ज्ञान और वैराग्य से प्राप्त होनेवाले
महान् विवेक की वृद्धि किस प्रकार होती हैं तथा वैष्णवलोग किस तरह इस माया-मोह से
अपना पीछा छुड़ाते हैं ?॥ ५॥ इस घोर कलिकाल में जीव प्रायः
आसुरी स्वभाव के हो गये हैं, विविध क्लेशों से आक्रान्त इन
जीवों को शुद्ध (दैवीशक्तिसम्पन्न) बनाने का सर्वश्रेष्ठ उपाय क्या हैं ? ॥ ६ ॥ सूतजी ! आप हमें कोई ऐसा शाश्वत साधन बताइये, जो
सबसे अधिक कल्याणकारी तथा पवित्र करनेवालों में भी पवित्र हो; तथा जो भगवान् श्रीकृष्ण की प्राप्ति करा दें ॥ ७ ॥ चिन्तामणि केवल लौकिक
सुख दें सकती हैं और कल्पवृक्ष अधिक-से-अधिक स्वर्गीय सम्पत्ति दे सकता है: परन्तु
गुरुदेव प्रसन्न होकर भगवान् का योगि-दुर्लभ नित्य वैकुण्ठ धाम दे देते हैं ॥ ८ ॥
सूतजी ने कहा —
शौनकजी ! तुम्हारे हृदय में भगवान् का प्रेम है; इसलिये मैं विचारकर तुम्हें सम्पूर्ण सिद्धान्तों का निष्कर्ष सुनाता हूँ,
जो जन्म-मृत्यु के भय का नाश कर देता है ॥ ९ ॥ जो भक्ति के प्रवाह
को बढ़ाता है और भगवान् श्रीकृष्ण की प्रसन्नता का प्रधान कारण है, मैं तुम्हें वह साधन बतलाता हूँ, उसे सावधान होकर
सुनो ॥ १० ॥ श्रीशुकदेवजी ने कलियुग में जीवों के कालरूपी सर्प के मुख का ग्रास
होने के त्रास का आत्यन्तिक नाश करने के लिये श्रीमद्भागवत-शास्त्र का प्रवचन किया
है ॥ ११ ॥ मन की शुद्धि के लिये इससे बढ़कर कोई साधन नहीं है । जब मनुष्य
जन्म-जन्मान्तर का पुण्य उदय होता हैं, तभी उसे इस
भागवत-शास्त्र की प्राप्ति होती है ॥ १२ ॥ जब शुकदेवजी राजा परीक्षित् को यह कथा
सुनाने के लिये सभा में विराजमान हुए, तब देवतालोग उनके पास
अमृत का कलश लेकर आये ॥ १३ ॥ देवता अपना काम बनाने में बड़े कुशल होते हैं;
अतः यहाँ भी सब ने शुकदेव मुनि को नमस्कार करके कहा, ‘आप यह अमृत लेकर बदले में हमें कथामृत का दान दीजिये ॥ १४ ॥ इस प्रकार
परस्पर विनिमय (अदला-बदली) हो जाने पर राजा परीक्षित् अमृत का पान करें और हम सब
श्रीमद्भागवत रूप अमृत का पान करेंगे’ ॥ १५ ॥ इस संसार में
कहाँ काँच और कहाँ महामूल्य मणि तथा कहाँ सुधा और कहाँ कथा ? श्रीशुकदेवजी ने (यह सोचकर) उस समय देवताओं की हँसी उड़ा दी ॥ १६ ॥ उन्हें
भक्तिशून्य (कथा का अनधिकारी) जानकर कथामृत का दान नहीं किया । इस प्रकार यह
श्रीमद्भागवत की कथा देवताओं को भी दुर्लभ हैं ॥ १७ ॥ पूर्वकाल में श्रीमद्भागवत
के श्रवण से ही राजा परीक्षित की मुक्ति देखकर ब्रह्माजी को भी बड़ा आश्चर्य हुआ
था । उन्होंने सत्यलोक में तराजू बाँधकर सब साधन को तौला ॥ १८ ॥ अन्य सभी साधन तौल
में हल्के पड़ गये, अपने महत्त्व के कारण भागवत ही सबसे भारी
रहा । यह देखकर सभी ऋषियों को बड़ा विस्मय हुआ ॥ १९ ॥ उन्होंने कलियुग में इस
भगवद्रूप भागवतशास्त्र को ही पढ़ने-सुनने से तत्काल मोक्ष देनेवाला निश्चय किया ॥
२० ॥ सप्ताह-विधि से श्रवण करने पर यह निश्चय भक्ति प्रदान करता है । पूर्वकाल में
इसे दयापरायण सनकादि ने देवर्षि नारद को सुनाया था ॥ २१ ॥ यद्यपि देवर्षि ने पहले
ब्रह्माजी मुख से इसे श्रवण कर लिया था, तथापि सप्ताह श्रवण
की विधि तो उन्हें सनकादि ने ही बतायी थी ॥ २२ ॥
शौनकजी ने पूछा —
सांसारिक प्रपञ्च से मुक्त एवं विचरणशील नारदजी का सनकादि के साथ
संयोग कहाँ हुआ और विधि-विधान के श्रवण में उनकी प्रीति कैसे हुई ? ॥ २३ ॥
सूतजी ने कहा —
अब मैं तुम्हें वह भक्तिपूर्ण कथानक सुनाता हैं, जो श्रीशुकदेवजी ने मुझे अपना अनन्य शिष्य जानकर एकान्त में सुनाया था ॥
२४ ॥ एक दिन विशालापुरी में वे चारों निर्मल ऋषि सत्सङ्ग के लिये आये । वहाँ
उन्होंने नारदजी को देखा ॥ २५ ॥
सनकादि ने पूछा —
ब्रह्मन् ! आपका मुख उदास क्यों हो रहा है ? आप
चिन्तातुर कैसे हैं ? इतनी जल्दी-जल्दी आप कहाँ जा रहे हैं ?
और आपका आगमन कहाँ से हो रहा है ? ॥ २६ ॥ इस
समय तो आप उस पुरुष के समान व्याकुल जान पड़ते हैं जिसका सारा धन लुट गया हो;
आप-जैसे आसक्ति-रहित पुरुषों के लिये यह उचित नहीं है । इसका कारण
बताइये ॥ २७ ॥
नारदजी ने कहा —
मैं सर्वोत्तम लोक समझकर पृथ्वी में आया था । यहाँ पुष्कर, प्रयाग, काशी, गोदावरी (नासिक),
हरिद्वार, कुरुक्षेत्र, श्रीरङ्ग
और सेतुबन्ध आदि कई तीर्थों में मैं इधर-उधर विचरता रहा; किन्तु
मुझे कहीं भी मन को संतोष देनेवाली शान्ति नहीं मिली । इस समय अधर्म के सहायक
कलियुग ने सारी पृथ्वी को पीड़ित कर रखा है ॥ २८-३० ॥ अब यहाँ सत्य, तप, शौच (बाहर-भीतर की पवित्रता), दया, दान आदि कुछ भी नहीं है । बेचारे जीव केवल अपना
पेट पालने में लगे हुए हैं; वे असत्यभाषी, आलसी, मन्दबुद्धि, भाग्यहीन,
उपद्रवग्रस्त हो गये हैं । जो साधु-संत कहे जाते हैं, वे पूरे पाखण्डी हो गये हैं; देखने में तो वे विरक्त
हैं, किन्तु स्त्री-धन आदि सभी का परिग्रह करते हैं । घरों
में स्त्रियों का राज्य है, साले सलाहकार बने हुए हैं,
लोभ से लोग कन्या विक्रय करते हैं और स्त्री-पुरुषों में कलह मचा
रहता है ॥ ३१-३३ ॥ महात्माओं के आश्रम, तीर्थ और नदियों पर
यवनों (विधर्मियों) का अधिकार हो गया है; उन दुष्टों ने
बहुत-से देवालय भी नष्ट कर दिये हैं ॥ ३४ ॥ इस समय यहाँ न कोई योगी हैं न सिद्ध है;
न ज्ञानी है और न सत्कर्म करनेवाला ही है । सारे साधन इस समय कलिरूप
दावानल से जलकर भस्म हो गये हैं ॥ ३५ ॥ इस कलियुग में सभी देशवासी बाजारों में
अन्न बेचने लगे हैं, ब्राह्मण लोग पैसा लेकर वेद पढ़ाते हैं
और स्त्रियाँ वेश्यावृत्ति से निर्वाह करने लगी हैं ॥ ३६ ॥ इस तरह कलियुग के दोष
देखता और पृथ्वी पर विचरता हुआ मैं यमुनाजी के तटपर पहुँचा, जहाँ
भगवान् श्रीकृष्ण की अनेकों लीलाएँ हो चुकी हैं ॥ ३७ ॥ मुनिवरो ! सुनिये, वहाँ मैंने एक बड़ा आश्चर्य देखा । वहाँ एक युवती स्त्री खिन्न मन से बैठी
थीं ॥ ३८ ॥ उसके पास दो वृद्ध पुरुष अचेत अवस्था में पड़े जोर-जोर से साँस ले रहे
थे । वह तरुणी उनकी सेवा करती हुई कभी उन्हें चेत कराने का प्रयत्न करती और कभी
उनके आगे रोने लगती थी ॥ ३९ ॥ वह अपने शरीर के रक्षक परमात्मा को दसों दिशाओं में
देख रही थी । उसके चारों ओर सैकड़ों स्त्रियाँ उसे पंखा झल रही थीं और बार-बार
समझाती जाती थीं ॥ ४० ॥ दूर से यह सब चरित देखकर में कुतूहलवश उसके पास चला गया ।
मुझे देखकर वह युवती खड़ी हो गयी और बड़ी व्याकुल होकर कहने लगी ॥ ४१ ॥
युवती ने कहा —
अजी महात्माजी ! क्षणभर ठहर जाइये और मेरी चिन्ता को भी नष्ट कर
दीजिये । आपके दर्शन तो संसार के सभी पापों से सर्वथा नष्ट कर देनेवाला हैं ॥ ४२ ॥
आपके वचनों से मेरे दुःख की भी बहुत कुछ शान्ति हो जायगी । मनुष्य का जब बड़ा
भाग्य होता है, तभी आपके दर्शन हुआ करते हैं ॥ ४३ ॥
नारदजी कहते हैं —
तब मैंने उस स्त्री से पूछा — देवि ! तुम कौन
हो ? ये दोनों पुरुष तुम्हारे क्या होते हैं ? और तुम्हारे पास ये कमलनयनी देवियाँ कौन हैं ? तुम
हमें विस्तार से अपने दुःख का कारण बताओ ॥ ४४ ॥
युवती ने कहा —
मेरा नाम भक्ति हैं, ये ज्ञान और वैराग्य नामक
मेरे पुत्र हैं । समय के फेर से ही ये ऐसे जर्जर हो गये हैं ॥ ४५ ॥ ये देवियाँ
गङ्गाजी आदि नदियाँ हैं । ये सब मेरी सेवा करने के लिये ही आयी हैं । इस प्रकार
साक्षात् देवियों के द्वारा सेवित होने पर भी मुझे सुख-शान्ति नहीं हैं ॥ ४६ ॥
तपोधन ! अब ध्यान देकर मेरा वृत्तान्त सुनिये । मेरी कथा वैसे तो प्रसिद्ध है,
फिर भी उसे सुनकर आप मुझे शान्ति प्रदान करें ॥ ४७ ॥
मैं द्रविड़ देश में उत्पन्न हुई,
कर्णाटक में बढ़ी, कहीं-कहीं महाराष्ट्र में
सम्मानित हुई, किन्तु गुजरात में मुझको बुढ़ापे ने आ घेरा ॥
४८ ॥ वहाँ घोर कलियुग के प्रभाव से पाखण्डियों ने मुझे अङ्ग-भङ्ग कर दिया । चिरकाल
तक यह अवस्था रहने के कारण मैं अपने पुत्रों के साथ दुर्बल और निस्तेज हो गयी ॥ ४९
॥ अब जब से मैं वृन्दावन आयी, तब से पुनः परम सुन्दरी
सुरूपवती नवयुवती हो गयी हूँ ॥ ५० ॥ किन्तु सामने पड़े हुए ये दोनों मेरे पुत्र
थके-माँदे दुखी हो रहे हैं । अब मैं यह स्थान छोड़कर अन्यत्र जाना चाहती हूँ ॥ ५१
॥ ये दोनों बूढ़े हो गये हैं — इसी दुःख से मैं दुःखी हूँ ।
मैं तरुणी क्यों और ये दोनों मेरे पुत्र बूढ़े क्यों ? ॥ ५२
॥ हम तीनों साथ-साथ रहनेवाले हैं । फिर यह विपरीतता क्यों ? होना
तो यह चाहिये कि माता बूढ़ी हो और पुत्र तरुण ॥ ५३ ॥ इसी से मैं आश्चर्यचकित चित्त
से अपनी इस अवस्था पर शोक करती रहती हूँ । आप परम बुद्धिमान् एवं योगनिधि हैं;
इसका क्या कारण हो सकता हैं, बताइये ? ॥ ५४ ॥
नारदजी ने कहा —
साध्वि ! मैं अपने हृदय में ज्ञानदृष्टि से तुम्हारे सम्पूर्ण दुःख
का कारण देखता हूँ, तुम्हें विषाद नहीं करना चाहिये ।
श्रीहरि तुम्हारा कल्याण करेंगे ॥ ५५ ॥
सूतजी कहते हैं —
मुनिवर नारदजी ने एक क्षण में ही उसका कारण जानकर कहा ॥ ५६ ॥
नारदजी ने कहा —
देवि ! सावधान होकर सुनो । यह दारुण कलियुग है । इसी से इस समय
सदाचार, योगमार्ग और तप आदि सभी लुप्त हो गये हैं ॥ ५७ ॥ लोग
शठता और दुष्कर्म में लगकर अघासुर बन रहे हैं । संसार में जहाँ देखो, वहीं सत्पुरुष दुःख से म्लान हैं और दुष्ट सुखी हो रहे हैं । इस समय जिस
बुद्धिमान् पुरुष का धैर्य बना रहे, वहीं बड़ा ज्ञानी या
पण्डित है ॥ ५८ ॥ पृथ्वी क्रमशः प्रतिवर्ष शेषजी के लिये भाररूप होती जा रही है ।
अब यह छूने योग्य तो क्या, देखने योग्य भी नहीं रह गयी हैं
और न इसमें कहीं मङ्गल ही दिखायी देता है ॥ ५९ ॥ अब किसी को पुत्रों के साथ
तुम्हारा दर्शन भी नहीं होता । विषयानुराग के कारण अंधे बने हुए जीवों से उपेक्षित
होकर तुम जर्जर हो रही थी ॥ ६० ॥ वृन्दावन के संयोग से तुम फिर नवीन तरुणी हो गयी
हो । अतः यह वृन्दावनधाम धन्य है, जहाँ भक्ति सर्वत्र नृत्य
कर रही है ॥ ६१ ॥ परंतु तुम्हारे इन दोनों पुत्रों का यहाँ कोई ग्राहक नहीं है,
इसलिये इनका बुढ़ापा नहीं छूट रहा हैं । यहाँ इनको कुछ आत्मसुख
(भगवत्स्पर्शजनित आनन्द) की प्राप्ति होने कारण ये सोते-से जान पड़ते हैं ॥ ६२ ॥
भक्ति ने कहा —
राजा परीक्षित् ने इस पापी कलियुग को क्यों रहने दिया ? इसके आते ही सब वस्तुओं का सार न जाने कहाँ चला गया ?॥ ६३ ॥ करुणामय श्रीहरि से भी यह अधर्म कैसे देखा जाता है ? मुने ! मेरा यह संदेह दूर कीजिये, आपके वचनों से
मुझे बड़ी शान्ति मिली है ॥ ६४ ॥
नारदजी ने कहा —
बाले ! यदि तुमने पूछा है, तो प्रेम से सुनो,
कल्याणी ! मैं तुम्हें सब बताऊँगा और तुम्हारा दुःख दूर हो जायगा ॥
६५ । जिस दिन भगवान् श्रीकृष्ण इस भूलोक को छोड़कर अपने परमधाम को पधारे, उसी दिन से यहाँ सम्पूर्ण साधनों में बाधा डालनेवाला कलियुग आ गया ॥ ६६ ॥
दिग्विजय के समय राजा परीक्षित की दृष्टि पड़ने पर कलियुग दीन के समान उनकी शरण
में आया । भ्रमर के समान सारग्राही राजा ने यह निश्चय किया कि इसका वध मुझे नहीं
करना चाहिये ॥ ६७ ॥ क्योंकि जो फल तपस्या, योग एवं समाधि से
भी नहीं मिलता, कलियुग में वही फल श्रीहरिकीर्तन से ही
भलीभाँति मिल जाता हैं ॥ ६८ ॥ इस प्रकार सारहीन होने पर भी उसे इस एक ही दृष्टि से
सारयुक्त देखकर उन्होंने कलियुग में उत्पन्न होनेवाले जीवों के सुख के लिये ही इसे
रहने दिया था ॥ ६९ ॥ इस समय लोगों को कुकर्म में प्रवृत्त होने के कारण सभी
वस्तुओं का सार निकल गया है और पृथ्वी के सारे पदार्थ बीजहीन भूसी के समान हो गये
हैं ॥ ७० ॥ ब्राह्मण केवल अन्न-धनादि के लोभवश घर-घर एवं जन-जन को भागवत की कथा
सुनाने लगे हैं, इसलिये कथा का सार चला गया ॥ ७१ ॥ तीर्थों
में नाना प्रकार के अत्यन्त घोर कर्म करनेवाले, नास्तिक और
नारकी पुरुष भी रहने लगे हैं; इसलिये तीर्थों का भी प्रभाव
जाता रहा ॥ ७२ ॥ जिनका चित्त निरन्तर काम, क्रोध, महान् लोभ और तृष्णा से तपता रहता है, वे भी तपस्या
का ढोंग करने लगे हैं, इसलिये तप का भी सार निकल गया ॥ ७३ ॥
मन पर काबू न होने के कारण तथा लोभ, दम्भ और पाखण्ड का आश्रय
लेने के कारण एवं शास्त्र का अभ्यास न करने से ध्यान-योग का फल मिट गया ॥ ७४ ॥
पण्डितों की यह दशा है कि वे अपनी स्त्रियों के साथ भैंसो की तरह रमण करते हैं,
उनमें संतान पैदा करने की ही कुशलता पायी जाती है, मुक्तिसाधन में वे सर्वथा अकुशल हैं ॥ ७५ ॥ सम्प्रदायानुसार प्राप्त हुई
वैष्णवता भी कहीं देखने में नहीं आती । इस प्रकार जगह-जगह सभी वस्तुओं का सार
लुप्त हो गया है ॥ ७६ ॥ यह तो इस युग का स्वभाव ही है इसमें किसी का दोष नहीं है ।
इसी से पुण्डरीकाक्ष भगवान् बहुत समीप रहते हुए भी यह सब सह रहे हैं ॥ ७७ ॥
सूतजी कहते हैं —
शौनकजी ! इस प्रकार देवर्षि नारद के वचन सुनकर भक्ति को बड़ा
आश्चर्य हुआ; फिर उसने जो कुछ कहा, उसे
सुनिये ॥ ७८ ॥ भक्ति ने कहा — देवर्षि ! आप धन्य हैं। मेरा
बड़ा सौभाग्य था, जो आपका समागम हुआ । संसार में साधुओं का
दर्शन ही समस्त सिद्धियों का परम कारण है ॥ ७९ ॥ आपका केवल एक बार का उपदेश धारण
करके कयाधूकुमार प्रह्लाद ने माया पर विजय प्राप्त कर ली थी । ध्रुव ने भी आपकी
कृपा से ही ध्रुवपद प्राप्त किया था । आप सर्वमंगलमय और साक्षात् श्रीब्रह्माजी के
पुत्र हैं, मैं आपको नमस्कार करती हूँ ॥ ८० ॥
॥ श्रीपद्मपुराणे उत्तरखण्डे
श्रीमद्भागवतमाहात्म्ये भक्तिनारदसमागमो नाम प्रथमोऽध्यायः ॥
॥ हरिः ॐ तत्सत्
श्रीकृष्णार्पणमस्तु ॥
No comments:
Post a Comment
Please do not enter any spam link in the comment box